________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*********************
राया भणेइ पिच्छह, अहह अहो उत्तमाण नीयाणं । केरिसमंतरमेयं, अमिअविसाणं व संजायं ॥७४२॥ धवलो करेड एरिसमणत्थमुवगारिणोऽवि कुमरस्स । कुमरो एयस्स अणस्थकारिणो कुणइ उवयारं ॥७४३॥ जह जह कुमरस्स जसं, धवलं लोअंमि वित्थरइ एवं । तह तह सो धवलोऽवि हु, खणे खणे होइ कालमुहो ॥७४४॥ तहवि कुमारेणं सो, आणीओ नियगिहं सबहुमाणं । भुंजाविओ अ विस्सामिओ अ नियचंदसालाए ॥७४५॥ तत्थ ठिओ सो चिंतइ, अहह अहो केरिसो विही वंको ? । जमहं करेमि कज्जं, तं तं मे निष्फलं होइ ॥७४६॥
राजा भणति, अहहेति खेदे, अहो इति आश्चर्य, भो लोका ! यूयं प्रेक्षध्वं - विलोकयत उत्तमानाम्-उत्तमपुरुषाणां नीचाना-नीचपुरुषाणामेतत् कीदृशमन्तरं सजातं?, कयोरिव-अमृतविषयोरिव, यथा सुधाविषयोरन्तरं तथेत्यर्थः ॥७४२॥ धवलः श्रेष्ठी उपकारिणोऽपि कुमारस्य ईदृशमनर्थं करोति, कुमारः अनर्थकारिणोऽपि एतस्य धवलस्य उपकारं करोति ॥७४३॥ यथा यथा कुमारस्य धवलम्-उज्ज्वलं यशो लोकेएवमुक्तप्रकारेण विस्तृणाति-विस्तारं प्राप्नोति तथा तथा हु इति निश्चितं स नाम्ना धवलोऽपि क्षणे क्षणे कालमुखः-श्याममुखो भवति ॥७४४॥ तथापि कुमारेण स धवलः सहबहुमानबहुमानसहितं यथा स्यात्तथा निजगृहमानीतो विविधभोज्यैः भोजितश्च, ततश्चन्द्रशालायां स्वगृहोपरिभूमौ विश्रामितश्चविश्रामं कारितः ॥७४५॥ तत्र-चन्द्रशालायां स्थितः स धवलश्चिन्तयति, किमित्याह- अहह इति खेदे, अहो इति आश्चर्ये, विधिः-दैवः कीदृशो वको वर्ततेऽहं यत् यत् कार्यं करोमि तत्तन्मम निष्फलं भवति ॥७४६॥
********************
For Private and Personal Use Only