________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
एवं ठिएवि अज्जवि, मारिज्जइ जइ इमो मए कहवि । ता एयाओ सिरीओ, सब्बाओ हुंति मह चेव ॥७४७॥ अन्नं च इत्थ सत्तम-भूमीए सुत्तओ इमो इक्को। ता हणिऊणं एयं, रमणीवि बलावि माणेमि ॥७४८॥ इअ चिंतिऊण हिट्ठो, धिट्ठो बुट्ठो निकिट्ठपाविट्ठो । असिधेणुं गहिऊणं, पहाविओ कुमरवहणत्थं ॥७४९॥ उम्मग्गमुक्कपाओ, पडिओ सो सत्तमाउ भूमीओ । छुरिआइ उरे विद्वो, मुक्को पाणेहिं पावुत्ति ॥७५०॥ सो सत्तमभूमीओ, पडिओ पत्तो अ सत्तमि भूमिं । नरयस्स तारिसाणं, समत्थि ठाणं किमन्नत्थ ? ॥७५१॥
एवं स्थितेऽपि यदि अयं कुमारो मयाऽद्यापि कथमपि-केनापि प्रकारेण मार्यते-प्राणवियुक्तः क्रियते तत्-तर्हि एताः सर्वाः श्रियो-लक्ष्म्यो ममैव भवन्ति ॥७४७॥ अन्यच्च अत्र-सप्तमभूमौ अयं कुमार एक-एकाकी सुप्तोऽस्ति, तत्-तस्मात्कारणात् एतं कुमारं हत्वा एतस्य तिम्रो रमणीरपि-स्त्रियोऽपि बलादपि मानयामि-भुनज्मि ॥७४८॥ इति चिन्तयित्वा स धवलो हृष्टः सन् असिधेनु-क्षुरिकां गृहीत्वा कुमारस्य वधार्थं प्रधावितो-हननार्थं चलितः, कीदृशः सः? -धृष्टः पुनर्दुष्टोऽत एव निकृष्टःअधमः पुनरतिशयेन पाप इति पापिष्ठः॥७४९॥ भयत्वरादिवशात् उन्मार्गे मुक्तौ पादौ येन स उन्मार्गमुक्तपादः सन् सप्तम्या भूमितः पतितः स्वकरस्थया क्षुरिकया उरसि-हृदये विद्धः पापोऽयमितिकृत्वा प्राणैर्मुक्तः-त्यक्तः॥७५०॥स धवलः सप्तमभूमितः पतितो नरकस्य सप्तमी भूमि-सप्तमनरकपृथ्वीमित्यर्थः प्राप्तश्च, युक्तोऽयमर्थः, यतस्तादृशानां दुष्टानां सप्तमनरकादन्यत्र किं स्थानं समस्ति ?, नास्त्येवेत्यर्थः ॥७५१॥
१७०
For Private and Personal Use Only