________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
442
डुबो कहेइ सच्चं, सामिअ! कारावियं इमं सव्वं । एएण सत्थवाहेण देव ! दाऊण मज्झ धणं ॥७३७॥ तो राया धवलंपि हु, बंधावेऊण निविडबंधेहिं । अप्पेइ मारणत्थं, चंडाणं दंडपासीणं ॥७३८॥ कुमरो निरुवमकरुणारसवसओ नरवराउ कहकहवि । मोआवइ तं धवलं, डुंबं च कुटुंबसंजुत्तं ॥७३९॥ मायंगाहिवइत्तं, पुट्ठो नेमित्तिओ कहइ एवं । मायंगा नाम गया, तेसिं एसो अहिवइत्ति ॥७४०॥ संपूइऊण राया, सम्मं नेमित्तिअं विसज्जेइ । भयणीसुयंति धूयावरंति कुमरं च खामेइ ॥७४१॥
तदा डुम्बः सत्यं कथयति, हे स्वामिन् ! हे देव-हे महाराज! एतेन सार्थवाहेन मह्यं धनं -द्रव्यं दत्त्वा एतत्सर्वमकृत्यं (कारापितम् अतः) कारणमयमेवास्तीति भावः ॥७३७॥ ततो राजा धवलसार्थवाहमपि निबिडबन्धैः-घनबन्धैर्बन्धयित्वा चण्डेभ्यः-अतिदुष्टेभ्यो दण्डपाशिकेभ्यः-कोट्टपालपुरुषेभ्यो मारणार्थमर्पयति-ददाति ॥७३८॥ कुमारः श्रीपालो निरुपमउपमारहितो यः करुणारसस्तद्वशात् तं धवलं कथंकथमपि नरवरात्-नृपान्मोचयति, च-पुनः कुटुम्बेन संयुक्तं -सहितं डुम्बं मोचयति ॥७३९॥ ततो राज्ञा मातङ्गाधिपतित्वं पृष्टो नैमित्तिक एवं कथयति,हे राजन्!मातङ्गा नाम गजा-हस्तिनस्तेषामेषः कुमारोऽधिपतिः- स्वामी इति ॥७४०॥ राजा -वसुपालो नैमित्तिकं सम्यक् वस्त्राभरणादिभिः सत्कार्य विसर्जयति, च- पुनः कुमारं भगिन्याः सुतमिति हेतोः पुत्र्या वरं-भर्तारमिति हेतोः क्षमयति ॥७४१॥
For Private and Personal Use Only