________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-*-*-**-*-*-*-**-*-*-*-*-*-****
तं सोऊणं ताओ मयणाओ हरिसियाओ चित्तंमि । तेणं मणवल्लहेणं, नूणं आणाविया अम्हे ॥७३२॥ सिबिआए चडिआओ, संपत्ता नरवरिंदभवणंमि । दळूण पाणनाहं, जाया हरिसेण पडिहत्था ॥७३३॥ रन्नावि पुच्छियाओ, वच्छा ! भंजेह अम्ह संदेहं । को एसो वुत्तंतो ?, कहेह आमूलचूलंति ॥७३४॥ तो विज्जाहरधूया, कहेइ सब्बंपि कुमरचरिअंजा । ताव निवो साणंदो, भणइ इमो भइणिपुत्तो मे ॥७३५॥ गाढयरं संतुट्ठो, राया कुमरस्स देइ बहुमाणं । डुंबं सकुडंबंपि हु, ताडावइ गरुअरोसेण ॥७३६॥
तद्वचनं श्रुत्वा ते मदने चित्ते हर्षिते, कथं हर्षिते इत्याह- नूनं-निश्चितं तेन मनोवल्लभेन- भर्ना आवाम् आनायिते -आकारिते स्वः, इत्थं हर्षिते इत्यर्थः ॥७३२॥ ततः शिबिकायां-सुखासने चटिते-आरूढे द्वे अपि स्त्रियौ नरवरेन्द्रस्य -राजेन्द्रस्य वसुपालस्य भवने-मन्दिरे प्राप्ते, तत्र च प्राणनाथं-भर्तारं दृष्ट्वा हर्षेण-आनन्देन प्रतिहस्ते-परिपूर्णे व्याप्ते इति यावत् जाते ॥७३३॥ राज्ञापि इति-अमुना प्रकारेण पृष्टे- हे वत्से- हे पुत्र्यौ ! युवाम् अस्माकं सन्देहं -संशयं भक्तं-दूरीकुरुतं, एष को वृत्तान्तः-एषा का वार्ताऽस्ति? आमूलचूलं कथयतं-मूलादारभ्य चूलां यावद्वदतमित्यर्थः ॥७३४॥ ततः-तदनन्तरं विद्याधरराजस्य पुत्री यावत्सर्वमपि कुमारस्य चरितं कथयति तावन्नृपो-वसुपालो राजा सानन्दो-हर्षसहितः सन् भणति, अयं कुमारो मम भगिनीपुत्रो, भागिनेयोऽस्तीत्यर्थः ॥७३५॥ ततो गाढतरम्-अत्यन्तं सन्तुष्टो राजा कुमाराय बहुमानं ददाति, हु निपातोऽत्र पुनरर्थे, पुनर्गुरुकरोषेण-तीव्रक्रोधेन सकुटुम्ब-कुटुम्बसहितमपि डुम्बं ताडयति-भृत्यैः कुट्टयति ॥७३६॥
For Private and Personal Use Only