________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************
| सिन्नं करेह सज्जं, जं मम हत्था कुलं पयासंति । जोहाए जं कुलवन्नणंति लज्जाकर एयं ॥७२७॥
अहवा पवहणमज्झट्ठिआउ जा संति दुन्नि नारीओ। आणाविऊण ताओ ,पुच्छेह कुलंपि जइ कज्जं ॥७२८॥ तो विम्हिओ अ राया, आणाविअ धवलसत्थवाहंपि । पुच्छइ कहेसु किं संति पवहणे दुन्नि नारीओ ? ॥७२९॥ धवलोवि हु कालमुहो, जा जाओ ताव नरवरिंदेणं । नारीण आणणत्थं, पहाणपुरिसा समाइट्ठा ॥७३०॥ तेहिं गंतूण तओ तहिं, भणियाओ नरवरिंदधूयाओ । पइणो कुलकहणत्थं, वच्छा ! आगच्छह दुअंति ॥७३१॥
यदि मम कुलश्रवणेच्छा भवेत्तर्हि एतत्कर्त्तव्यं, किमित्याह-स्वकीयं सैन्यं-कटकं सज्जं कुरु यन्मम हस्तौ कुलं प्रकाशयतः, यत्स्वजिह्वया कुलवर्णनं तदेतत् लज्जाकरमिति ॥७२७॥ अथवा प्रवहणस्य-पोतस्य मध्ये स्थिते ये द्वे नार्यो-स्त्रियौ स्तः ते स्त्रियौ इह आनाय्य यदि युष्माकं कार्यं तर्हि कुलमपि पृच्छत ॥७२८॥ ततश्च राजा विस्मितः सन् धवलसार्थवाहमपि आनाय्य पृच्छति, हे श्रेष्ठिन् ! कथय किं प्रवहणे द्वे ना? स्तः ? ॥७२९॥ एतन्नृपवचः श्रुत्वा धवलोऽपि यावत् कालं- श्यामं मुखं यस्य स कालमुखो जातस्तावन्नरवरेन्द्रेण - राज्ञा नार्योरानयनार्थं प्रधानपुरुषाः समादिष्टा-आज्ञप्ताः ॥७३०॥ तैःप्रधानपुरुषैस्तत्र गत्वा ते - नरवरेन्द्रपुत्र्यौ इति-वक्ष्यमाणप्रकारेण उक्ते, इतीति किं ? तदाह- हे वत्से ! युवां स्वपत्युः कुलकथनार्थं द्रुतं-शीघ्रम् आगच्छतम् ॥७३१॥
*************
***
*--
*-*-*-*-*
*-*-
For Private and Personal Use Only