________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****************
डंबो भणेइ सामिअ !, महलहुभाया इमो गओ आसि । संपइ तुम्ह समीवे, ठिओऽवि नो लक्खिओ सम्मं ॥७१७॥ एएण कारणेणं, माणमिसेणं अणाविओ पासे । उवलक्खिओ अ सम्मं, बहुलक्खणलक्खिओ एसो ॥ ७१८॥ राया चिंतेइ मणे, हीही विट्टालिअं कुलं मज्झ ॥ एएणं पावेणं, तो एसो झत्ति हंतब्बो ॥७१९॥ नेमित्तिओ अ बंधाविऊण आणाविओ नरवरेणं । भणिओ रे दुट्ठ! इमो, मायंगो कीस नो कहिओ ? ॥७२०॥ नेमित्तिओवि पभणइ, नरवर ! एसो न होइ मातंगो। किंतु महामायंगाहिवई होही न संदेहो ॥७२१॥
अथ डुम्बो नृपसम्मुखं विलोक्य भणति, हे स्वामिन् ! अयं मम लघुभ्राता क्वापि गत आसीत्, सम्प्रति-अधुना युष्माकं समीपे स्थितोऽपि न सम्यक् उपलक्षितः ॥७१७॥ एतेन कारणेन मानमिषेण-मानव्याजेन पावें आनायितः सम्यग् उपलक्षितश्च , हे स्वामिन् ! एष मद्भाता बहुभिर्लक्षणैर्लक्षितो- युक्तोऽस्ति ॥७१८॥ एतत् डुम्बवचनं श्रुत्वा राजा मनसि चिन्तयति, हीही इति खेदे, एतेन पापेन- दुष्टेन मम कुलं विटालितं-सदोषं कृतं, ततः तस्मात्कारणात् एष पापो झटिति शीघ्रं हन्तव्यो-मार्यः ॥७१९॥ च - पुनः नैमित्तिको नरवरेण-राज्ञा बन्धयित्वा आनायितः ,आनाय्य च भणितः-रे दुष्ट! अयं मातङ्गो-डुम्बः कस्मान्न कथितः-कथं नोक्त इत्यर्थः ॥७२०॥ नैमित्तिकोऽपि प्रभणति, हे नरवर! हे राजन् ! एष मातङ्गो न भवति, किन्तु महामातङ्गानां महागजानां अधिपतिर्भविष्यति, अस्मिन्नर्थे सन्देहो नास्ति ॥७२१॥
*********************************
********
For Private and Personal Use Only