SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org मंतेण तेण तुट्ठो, धवलो अप्पेइ कोडिमुल्लंपि । नियकरमुद्दारयणं, वेगेणं तस्स पाणस्स ॥७०७॥ तुटो सोवि हु डुंबो, सकुडुंबो जाइ निवगवक्खस्स । हिट्ठिममहीइ चिट्ठइ गायंतो गीयमइमहुरं ॥७०८॥ ताणं कोमलकंठुब्भवेण गीएण हरियमणकरणो । राया भणेइ भो भो !, जं मग्गह देमि तं तुब्भं ॥७०९॥ पाणो भणेइ सामिअ !, सम्वत्थाहं लहेमि बहुदाणं । किंतु न लहेमि माणं ता तं मह देसु जइ तुट्ठो ॥७१०॥ राया भणेइ माणं, जस्साहं देमि तस्स तंबोलं । दावेमिमिणा जामाउएण पाणप्पिएणावि ॥७११॥ तेन मन्त्रेण-आलोचेन तुष्टः सन् धवलः कोटिमूल्यमपि निजकरस्य-स्वहस्तस्य मुद्रारत्नं वेगेन तस्मै 'पाणस्स'त्ति-डुम्बाय अर्पयति-ददाति ॥७०७॥ स डुम्बोऽपि तुष्टः सन् सकुटुम्बः-कुटुम्बसहितो याति-राजद्वारं गच्छति अतिमधुरं गीतं गायन् नृपगवाक्षस्य अधस्तनपृथिव्यां तिष्ठति ॥७०८॥ तेषां-डुम्बानां कोमलकण्ठोद्भवेन-कोमलकण्ठादुत्पन्नेन गीतेन हृते मनःकरणे-चित्तश्रोत्रेन्द्रिये यस्य स एवंविधः सन् राजा वसुपालो भणति, भो भो गायना! यत् यूयं मार्गयध्वं - याचध्वं तत् युष्मभ्यं ददामि ॥७०९॥ तदा डुम्बो भणति, हे स्वामिन् ! अहं सर्वत्र बहुदानं लभे-प्राप्नोमि किंतु मानं -सत्कारं क्वापि न लभे-न प्राप्नोमि तत्-तस्मात्कारणात् हे महाराज ! यदि त्वं तुष्टोऽसि तर्हि मह्यं तं मानं दत्स्व-देहीत्यर्थः ॥७१०॥राजा भणति, यस्मै अहं मानं ददामि तस्मै प्राणेभ्यः प्रियः प्राणप्रियस्तेन प्राणप्रियेणापि अनेन जामात्रा ताम्बूलं दापयामि ॥७११॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy