________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*********************************
एगंते डुंब पइ, सो जंपइ देमि तुज्झ भूरिधणं । जइ इक्कं मह कज्जं, करेसि केणवि उवाएणं ॥ ७०२॥ डंबोऽवि भणइ पढम, कहेह मह केरिसं तयं कज्जं । जेण मए जाणिज्जइ, एयं सझं असझं वा ॥७०३॥ धवलो भणेइ जो नरवरस्स जामाउओ इमो अस्थि । जइ तं मारेसि तुमं, ता तुह मुहमग्गियं देमि ॥७०४॥ डंबो भणेइ तं मारणमि इक्कुत्थि एरिसोवाओ । जं अन्नायकुलं तं, पयडिस्सं एस ९बुत्ति ॥७०५॥ तत्तो राया जामाउअंपि तं जमगिहमि पेसेहि । एवं च कए नूणं, होही तुह कज्जसिद्धीवि ॥७०६॥
एतद् डुम्बवचनं श्रुत्वा स श्रेष्ठी एकान्ते डुम्बं प्रति जल्पति-कथयति, तुभ्यं भूरि-प्रचुरं धनं ददामि, यदि केनापि उपायेन एकं मम कार्यं करोषि, एतद्धवलवचः श्रुत्वा ॥७०२॥ डुम्बोऽपि भणति-कथयति, प्रथमं मह्यं कथय तत्कार्यं कीदृशमस्ति, येन कथनेन मया ज्ञायते एतत्कार्यं साध्यमसाध्यं वा ॥७०३॥ तदा धवलो भणति, योऽयं नरवरस्य -राज्ञो जामाताऽस्ति, यदि तं नृपजामातरं त्वं मारयसि तत्-तर्हि तव मुखमार्गितं ददामि-तुभ्यं दानं ददामीत्यर्थः ॥७०४॥ डुम्बो भणति,तस्यनृपजामातुर्मारणे एक ईदृश उपायोऽस्ति, क इत्याह-यत्-यतो न ज्ञातं कुलं यस्य सोज्ञातकुलस्तं तथाविधं तं-नृपजामातरम् एष डुम्ब इति प्रकटयिष्यामि ॥७०५॥ ततः-तदनन्तरं राजा तं जामातरमपि यमगृहे प्रेषयिष्यति, एवं च कृते सति नूनंनिश्चितं तव कार्यसिद्धिरपि भविष्यति ॥७०६॥
****************************
*
For Private and Personal Use Only