________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************************
चिंतेइ हिययमझे, हीही विहिविलसिएण विसमेण । जं जं करेमि कज्जं, तं तं मे होइ वियरीयं ॥ ६९७ ॥ एसो सो सिरिपालो, जाओ जामाउओ नरिंदस्स । गुरुओ ममावराहो, किं होही तं न याणामि ॥ ६९८ ॥ तहवि निअकज्जविसए, धीरेण समुज्जमो न मुत्तब्बो । जं सम्ममुज्जमंताण पाणिणं संकए हु विही ॥ ६९९ ॥ एवं सो चिंतंतो, जा पत्तो निययंमि उत्तारे । ता तत्थ गीअनिउणं, डुंबकुटुंबं च संपत्तं ॥ ७००॥ सो ताण गायणाणं, जाव न चिंताउलो दियइ दाणं । ता डुबेणं पुट्ठो, रुट्ठो किं देव ! अम्हुवरिं ॥७०१॥
तदा स हृदयमध्ये चिन्तयति, हीही इति खेदे, विषमेण विधेः-दैवस्य विलासेन यत् यत् कार्यं करोमि तत्तत् मे-मम विपरीतं भवति ॥ ६९७ ॥ स एष श्रीपालो नरेन्द्रस्य-राज्ञो जामाता जातोऽस्ति, ममाऽपराधो गुरुको-महानस्ति, अथ किं भविष्यति ? तन्न जानामि ॥ ६९८ ॥ तथापि धीरेण-बुद्धिमता निजकार्यविषये सं-सम्यक् प्रकारेण उद्यमो न मोक्तव्योन त्याज्यो यद्-यस्मात्कारणात् सम्यक् उद्यच्छद्भय-उद्यमवद्भयः प्राणिभ्यो हु इति-निश्चितं विधिः-दैवोऽपि शङ्कते॥६९९॥ ॥स धवल एवं चिन्तयन् यावन्निजके स्वकीये उत्तारे-निवेशस्थाने प्राप्तस्तावत्तत्र गीतेषु निपुणं-चतुरं गीतनिपुणं डुम्बानां कुटुम्बं च सम्प्राप्तम् ॥७०० ॥ स धवलश्चिन्तया आकुलः सन् यावत्तेभ्यो गायनेभ्यो दानं न ददाति तावत् डुम्बेन श्रेष्ठी पृष्टः- हे देव- हे महाराज ! अस्माकमुपरि किं रुष्टोऽसि यद्दानं न ददासीति भावः ॥ ७०१॥
***********************
our
For Private and Personal Use Only