________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
********************
रायावि सत्यवाहस्स तस्स दावेइ गुरुयबहुमाणं । तंबोलं तेणं चिय, सिरिपालेणं विसेसेणं ॥ ६९२ ॥ सिरिपालकुमारेणं, नाओ सिट्ठी स दिट्ठमित्तोवि । सिट्ठी पुण सिरिपालं, ठूणं चिंतए एवं ॥ ६९३ ॥ धिद्धी किं सो एसो, सिरिपालो धवलसिट्ठिणो कालो । किंवा तेण सरिच्छो, अन्नो पुरिसो इमो कोऽवि ?॥६९४॥ ठाऊण खणं नरवरसहाइ जा उट्ठिओ धवलसिट्ठी । पडिहाराओ पुच्छइ, थइआइत्तो इमो को उ?॥६९५॥ तेणं कहिओ सब्बोऽवि तस्स कुमरस्स चरिअवुत्तंतो । तं सोऊणं सिट्ठी, जाओ वज्जाहउव्व दुही॥ ६९६ ॥
राजापि तस्मै सार्थवाहाय तेन श्रीपालेनैव विशेषेण गुरुको-महान् बहुमानो यत्र तद् गुरुकबहुमानं ताम्बूलं दापयति ॥६९२॥ श्रीपालकुमारेण स धवलश्रेष्ठी दृष्टमात्रोऽपि ज्ञात-उपलक्षितः, श्रेष्ठी पुनः श्रीपालं दृष्ट्वा एवं चिन्तयति, किं चिन्तयतीत्याह-॥ ६९३ ॥ धिग् धिगस्तु, स एष किं श्रीपालोऽस्ति, कीदृशः श्रीपालः ?- धवलश्रेष्ठिनः कालः-कालतुल्यः, किंवा तेन-श्रीपालेन सदृक्षः-तुल्योऽयं कोऽपि अन्यः पुरुषोऽस्ति ॥ ६९४ ॥ एवं चिन्तयित्वा धवलश्रेष्ठी क्षणं यावन्नरवरस्य - राज्ञः सभायां स्थित्वा यावत् उत्थितस्तावद् बहिरागत्य प्रतीहारान्-द्वारपालान् पृच्छति, प्रतीहारं पृच्छतीत्यर्थः, किमित्याहअयं 'थइयाइत्तों त्ति ताम्बूलदानाधिकारी कः पुरुषोऽस्ति ॥६९५॥तेन प्रतीहारेण तस्य कुमारस्य सर्वोऽपि चरितवृत्तान्तः कथितः, तं वृत्तान्तं श्रुत्वा श्रेष्ठी वजाहत इव दुःखी जातः ॥ ६९६ ॥
***********************
For Private and Personal Use Only