________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
****************
अन्नदिणे सो नारीवेसं काऊण कामगहगहिलो । मयणाणं आवासं, सयं पविट्ठो सुपाविट्ठो ॥६८७॥ जाव पलोएइ तहिं, ताव न पिच्छेइ ताउ मयणाओ। पुरओ ठिआउ मालाइसएण अद्दिस्सरूवाओ॥६८८॥ सो रागंधो अंधुब जाव भमडेइ तत्थ पवडंतो। तो दासीहिं सुणउब्व कडिओ कुट्टिऊण बहिं ॥६८९॥ इत्तो ते बोहित्था, मग्गेणऽन्नेण निज्जमाणावि । सयमेव कुंकुणतडे, पत्ता मासंमि किंचूणे ॥६९०॥ पढमं उत्तरिऊणं, धवलो जा जाइ पाहुडविहत्थो । रायकुलं ता पासइ, नरवरपासंमि सिरिपालं ॥६९१॥
अन्यस्मिन् दिने स धवलो नारीवेषं स्त्रीवेषं-कृत्वा कामरूपग्रहेण ग्रथिलः सन् स्वयम्-आत्मना मदनयोः-श्रीपालस्त्रियोः आवासं-मन्दिरं प्रविष्टः, तयोरावासे प्रविष्टवानित्यर्थः, कीदृशः सः ?-सुतरामतिपापिष्ठः सुपापिष्ठः॥६८७॥यावत्तत्रावासे प्रलोकयति तावत् पुरतः-अग्रतः स्थिते ते मदने न प्रेक्षते-न पश्यति, कीदृश्यौ मदने ?-मालाऽतिशयेन-मालयोः प्रभावेण अदृश्यं रूपं ययोस्ते अदृश्यरूपे ॥ ६८८ ॥ स धवलो रागेण-कामरागेण अन्धः सन् अन्धः पुमानिव प्रपतन्-प्रकर्षण पतन् यावत्तत्र मदनावासे भ्रमति तावद् दासीभिः-मदनयोश्चेटीभिः शुनकः-कुर्कुर इव कुट्टयित्वा बहिः 'कडिओं त्ति निष्कासितः ॥६८९ ॥ इतः परं ते बोहित्थाः-पोताः अन्येन मार्गेण नीयमानाः-प्राप्यमाणा अपि स्वयमेव किञ्चिदूने मासे कुकुणतटे प्राप्ताः॥६९०॥अथ धवलःप्रथममुत्तीर्य प्राभृतेन-ढौकनेन विशिष्टौ युक्तौ हस्तौ यस्य स प्राभृतविहस्तःसन्यावत्र राजकुलंनृपमन्दिरं याति तावन्नरवरस्य-राज्ञः पार्श्वे श्रीपालं पश्यति ॥ ६९१ ॥
************************
***
१५८
*
***
For Private and Personal Use Only