________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
*
**
*
*
*
*
**********************
ता चक्केसरिदेवी, पभणइ हे दुटु ! धिट्ट पाविट्ठ ! । एयाण सरणगमणेण चेव मुक्कोऽसि जीवंतो ॥६७३॥ विणओणयाउ ताओ, मयणाओ दोवि विम्हियमणाओ । भणियाओ देवीए, सपसायं एरिसं वयणं ॥६७४॥ वच्छा ! बल्लह तुम्हतणउ गरुईरिद्धिसमेउ । मासभिंतरि निच्छइण मिलिसइ धरहु म खेउ ॥६७५॥ एम भणेविणु चक्कहरि परिमलगुणिहिं विसाल । मयणह कंठिहिं पक्खिवइ सुरतरुकुसुमह माल ॥६७६॥ तुम्हह दुटु न देखिसिइ मालह तणइ पमाणि । एम भणेविणु चक्कहरि देवी गई नियठाणि ॥ ६७७ ॥
ततश्चक्रेश्वरीदेवी प्रभणति-रे दुष्ट ! धृष्ट ! पापिष्ठ ! एतयोर्महासत्योः शरणगमनेनैव त्वं जीवन्मुक्तोऽसि ॥६७३ ॥ विनयेन अवनते-नने पुनर्विस्मितम्-आश्चर्यप्राप्तं मनो ययोस्ते विस्मितमनसौ ते द्वे अपि मदने देव्या चक्रेश्वर्या सप्रसादप्रसादसहितं यथा स्यात्तथा ईदृशं वचनं भणिते॥६७४ ॥ हे वत्से-हे पुत्र्यौ युवयोवल्लभो-भर्ता गुा-महत्या ऋद्ध्या समेतःसंयुक्तो मासाभ्यन्तरे-मासमध्ये निश्चयेन मिलिष्यति, युवां खेदं मा धरताम् ॥ ६७५ ॥ एवं भणित्वा-उक्त्वा चक्रधराचक्रेश्वरीदेवी मदनसेनामदनमञ्जूषयोः कण्ठयोर्विषये परिमलगुणैर्विशाले-विस्तीर्णे सुरतरुकुसुमानां-कल्पवृक्षपुष्पाणां माले प्रक्षिपति ॥ ६७६ ॥ मालयोः प्रमाणेन-प्रभावेनेत्यर्थः युवां दुष्टः पुमान् न द्रक्ष्यति-न विलोकयिष्यतीत्यर्थः, एवं भणित्वा चक्रधरा-चक्रेश्वरीदेवी निजस्थाने गता, स्वस्थानं गतवतीत्यर्थः ॥ ६७७॥ एतानि त्रीण्यपि दोहाछन्दांसि बोध्यानि ।
**
*
*
*
**
**
*
For Private and Personal Use Only