________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
******************************
पभणंति तओ तिन्निवि, ते पुरिसा सरलबुद्धिणो धवलं । दिटुं कुबुद्धिदायगफलं तए एरिसविवागं ॥६७८॥ एयाणं च सईणं, सरणपभावेण जइवि जीवंतो। छुट्टोऽसि तहवि पावं, पुणो करंतो लहसिऽणत्थं ॥६७९॥ जो पररमणीरमणिकलालसो होइ रागगहगहिओ। जइ सो वुच्चइ पुरिसो, ता के खरकुक्कुरा अन्ने ? ॥६८०॥ धिद्धी ताण नराणं, जे पररमणीण रूवमित्तेणं । खुहिआ हणंति सब्वं, कुलजससग्गापवग्गसुहं ॥६८१॥
ततः-तदनन्तरं ते त्रयोऽपि सरलबुद्धयः-ऋजुबुद्धिधराः पुरुषाः धवलं प्रभणन्ति-कथयन्ति, किं भणन्तीत्याहहे धवल ! ईदृशो विपाकः-परिपाको यस्य तत् ईदृशविपाकं कुबुद्धिदायकस्य फलं त्वया दृष्टम् ॥ ६७८॥ च - पुनः एतयोः सत्योः शरणप्रमावेण यद्यपि त्वं जीवन् छुटितोऽसि तथापि पुनः पापं कुर्वन् अनर्थं लभसे -प्राप्यसीत्यर्थः ॥ ६७९ ॥ यः पुमान् पररमणीभिः-परस्त्रीभिः सह रमणे एका लालसा-तृष्णा यस्य स एवंविधो भवति, कीदृशः सन् ?-रागः-कामरागः एव ग्रहस्तेन गृहीतः सन्, यदि स पुमानपि पुरुष उच्यते तत्-तर्हि मनुष्यरूपेण खरकुर्कुरा-गर्दभश्वाना अन्ये के उच्यन्ते? ॥ ६८० ॥ तान् नरान् धिग् धिगस्तु-धिक्कारोऽस्तु ये पररमणीनां रूपमात्रेण क्षुभिताः-चलिताः सन्तः सर्वं कुलयशःस्वर्गापवर्गसुखं नन्ति-विनाशयन्ति, कुलम्-उच्चैर्गोत्रं, यशः-कीर्तिः, स्वर्गसुखं प्रतीतम्, अपवर्गसुखं-मोक्षसुखम्, एतेषां समाहारद्वन्द्वः ॥ ६८१॥
**************************
स्वर्गापवर्गसुखं भाग धिगस्तु-धिक्कारोऽस्त तर्हि मनुष्यरूपेण खरात
For Private and Personal Use Only