________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तो धवलो सुयणो इव, जंपइ सुयणू ! करेह मा खेयं । एसोऽहं निच्चंपि हु, तुम्हं दुक्खं हरिस्सामि ॥ ६६० ॥ तं सोऊणं ताओ, सविसेसं दुक्खियाउ चिंतंति । नूणमणेणं पावेण चेव कयमेरिसमकज्जं ॥ ६६१ ॥ इत्थंतरे उच्छलियं जलेहिं, वियंभियं उब्भडमारुएहिं । समुन्नयं घोरघणावलीहिं, कडक्कियं रुद्दतडिल्लयाहि॥६६२ घोरंधयारेहिं विवड्डियं च, रउद्दसद्देहिं समुट्ठियं च । अट्टहासेहिं पयट्टियं च, सयं च उप्पायसएहिं जायं ॥६६३॥
ततः-तदनन्तरं धवलः श्रेष्ठी स्वजन इव जल्पति, हे सुतनू-हे शोभनायौ युवां मा खेदं कुरुतं, एषोऽहं नित्यमपि हु इति निश्चितं युवयोः-भवत्योर्दुःखं हरिष्यामि-दूरीकरिष्यामि ॥६६०॥ ततस्तद्वचनं श्रुत्वा ते स्त्रियौ सविशेषं दुःखिते सत्यौ चिन्तयतः, किं चिन्तयत इत्याह- नूनं-निश्चितम् अनेन पापेन-क्रूरेणैव ईदृशमकार्यं कृतमिति ज्ञायते ॥६६१॥ अत्रान्तरे-अस्मिन्नवसरे जलैः-समुद्रपानीयैः उच्छलितं, तथा उद्भटमारुतैः-दुस्सहवायुभिर्विजृम्भितं-विस्तृतं, तथा घोरघनावलीभिःभयानकमेघमालाभिः समुन्नतं-उन्नम्यागतं, तथा रुद्रतडिल्लताभिः-भयङ्करविद्युद्भिः कडक्कितम्, अनुकरणशब्दोऽयम्॥६६२
॥च - पुनः घोरान्धकारैर्विशेषेण वर्द्धितम्, च -पुनः रौद्रशब्दैः-भयानकध्वनिभिः समुत्थितं, च- पुनः अट्टहासैः प्रवर्तितं, च *-पुनः स्वयम्-आत्मना उत्पातशतैः-उपद्रवशतैर्जातम्-उत्पन्नम्, अत्र पद्यद्वये सर्वा अपि भावोक्तयो ज्ञेयाः ॥ ६६३ ॥
******************
*********
For Private and Personal Use Only