________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
*
क
*
*
देशवासग्रामादेराधिपत्यं-स्वामित्वमपि ददतोऽपि राज्ञः सकाशात् कुमरो न लाति-न गृह्णाति, नु इति विशेषे, एकं ‘थइयाइत्तं’ ति स्थगीधरत्वं-ताम्बूलदानाधिकारित्वं मार्गयति ॥ ६५१ ॥ राजा वसुपालस्तस्य कुमारस्य तुष्टिकृते-तोषनिमित्तं हीनमपि तत्ताम्बूलदानलक्षणं कर्म्म दत्त्वाऽत्यन्तमाननीयेभ्यः पुरुषेभ्यस्तेन श्रीपालेन ताम्बूलं दापयति ॥ ६५२ ॥ इच यदा कुमारः समुद्रमध्ये पतितस्तदा धवलाख्यश्रेष्ठी तेन कुमित्रेण समं सह हृदयमध्ये सन्तुष्टः सञ्जातः ॥ ६५३ ॥ लोकानां * प्रत्ययार्थं प्रतीत्युत्पादनार्थं धवलः प्रकर्षेण भणति, अहहेति खेदे, किं जातं ?, कुत्सितं कार्यं जातमित्यर्थः, यत्-यस्मात्कारणात् अस्माकं प्रभुः- स्वामी स कुमारः समुद्रे पतितः ॥ ६५४ ॥ अथ माया बहुला - प्रचुरा यस्य स मायाबहुलो धवलः श्रेष्ठी हृदयंवक्षस्थलं पिट्ट्यति, च पुनः शिरो-मस्तकं कुट्टयति, पुनर्मुक्तः स्वरो यत्र कर्म्मणि तत् मुक्तस्वरं यथा स्यात्तथा पूत्करोति* पूत्कारं करोति, कथमित्याह- हा इति खेदे, हे स्वामिन् ! त्वं कुत्र गतोऽसि ? एवं पूत्करोति स्मेत्यर्थः ॥ ६५५ ॥
हा
*
-
१५० *
www.kobatirth.org
*
Acharya Shri Kailassagarsuri Gyanmandir
रन्नो दंतस्सवि देसवासगामाइ आहिवत्तंपि । कुमरो न लेइ इक्कं थइयाइत्तं नु मग्गेइ ॥ ६५१ ॥ या तं हीपि हु, कम्मं दाऊण तस्स तुट्ठिकए । अच्छंतमाणणिज्जाण तेण दावेइ तंबोलं ॥ ६५२ ॥ इओ य- जइया समुद्दमज्झे, पडिओ कुमरो तया धवलसिट्ठी । तेण कुमित्तेण समं, संतुट्ठो हिययमज्झमि ॥
या पच्चयत्थं, धवलो पभणइ अहह किं जायं। जं अम्हाणं पहु सो, कुमरो पडिओ समुद्दमि ॥ ६५४ ॥ हिययं पिट्टेइ सिरं, च कुट्टए पुक्करेइ मुक्कसरं । धवलो मायाबहुलो, हा कत्थ गओऽसि सामि ! तुमं ? ॥ ६५५॥
For Private and Personal Use Only