________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***********************
मम सभाया
पुब्बिं सहाइ पत्तो, एगो नेमित्तिओ मए पुट्ठो । को मयणमंजरीए, मह पुत्तीए वरो होही ? ॥ ६४६ ॥ तेणुत्तं जो वइसाहसुद्धदसमीइ जलहितीरवणे । अचलंतछायतरुतल-ठिओ हवइ सो इमीइ वरो ॥६४७॥ अज्जं चिय तंसि तहेव पाविओ वच्छ ! पुण्णजोएणं । ता मयणमंजरिमिम, मह धूयं झत्ति परिणेसु ॥६४८॥ एवं भणिऊण नरेसरेण अइवित्थरेण वीवाहं । काराविऊण दिन्नं, हयगयमणिकंचणाईयं ॥ ६४९ ॥ तत्तो सिरिसिरिपालो, नरनाहसमप्पियंमि आवासे । भुंजइ सुहाई जं पुन्नमेव मूलं हि सुक्खाणं ॥६५०॥
कीदृशमित्याह- पूर्वं मम सभायां प्राप्तः एको नैमित्तिको मया पृष्टः मम पुत्र्या मदनमञ्जाः को वरो-भर्ता भविष्यति ?॥६४६ ॥ एवं मया पृष्टे सति तेन नैमित्तिकेनोक्तं- यो वैशाखसुदिदशम्यां जलधेः-समुद्रस्य तीरे यद्वनं तस्मिन् अचलच्छायस्य तरोस्तले स्थितो भवति स पुमान् अस्या वरो भावी ॥ ६४७ ॥ अद्यैव हे वत्स ! पुण्ययोगेन तथैवनैमित्तिकोक्तप्रकारेणैव त्वं प्राप्तोऽसि, तस्मात् कारणात् इमा मदनमञ्जरी मम पुत्री झटिति-शीघ्रं परिणयस्व ॥६४८॥ एवं भणित्वा-उक्त्वा नरेश्वरेण-राज्ञाऽतिविस्तारेण विवाह-पाणिग्रहणं कारयित्वा हयगजमणिकाञ्चनादिकम्अश्वहस्तिरत्नस्वर्णादिकं दत्तम् ॥६४९ ॥ ततः-तदनन्तरं श्रीमान् श्रीपालो नरनाथेन-राज्ञा समर्पिते आवासे-मन्दिरे सुखानि भुङ्क्ते-अनुभवति, यद्-यस्मात्कारणात् सुखानां मूलं कारणं पुण्यमेवास्ति, पुण्यवान् यत्र गच्छति तत्र सुखमेवानुभवतीत्यर्थः ॥ ६५०॥
*************************
नैमित्तिकेनोक्ती
॥ ६४७ "..
For Private and Personal Use Only