________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
१४५
*
*
**
www.kobatirth.org
srisहं तुह मणवंछियत्थसंसाहणिक्कतल्लिच्छो । अच्छामि ता तुमं मा, निअचित्ते किंपि चिंतेसु ॥६२६॥ किंतु विसेसेण तुमं, सिरिपालेण समं कुणसु मित्तिं । जं सो वीसत्थमणो अम्हाणं सुहहओ होइ ॥६२७॥ तो धवलो तुट्ठमणो, भणइ तुमं चेव मज्झ वरमित्तो । किं तु मह वंछियाणं, सिद्धी होही कहं कहसु ॥६२८॥ * सो आह जुज्झणत्थं, दोराधारेण मंडिए मंचे । कह कहवि तं चडाविअ, केणवि कोऊहलमिसेणं ॥६२९॥
छन्नं चिय छिन्ने दोरयंमि सो निच्छयं समुद्दमि । पडिही तो तुह वंछिय-सिद्धी होही निरववायं ॥६३०॥
**
Acharya Shri Kailassagarsuri Gyanmandir
एकोऽहं तव मनोवाञ्छितार्थसंसाधने एका सा एव लिप्सा यस्य सः, त्वन्मनश्चिन्तितार्थसम्यक्साधनतत्पर इत्यर्थः, 'अच्छामि' त्ति स्थितोऽस्मि, तस्मात् त्वं निजचित्ते किमपि मा चिन्तय - कामपि चिन्तां मा कृथा इत्यर्थः ॥ ६२६ ॥ किन्तु त्वं श्रीपालेन समं- सार्द्धं विशेषेण मैत्र्यं कुरुष्व यद् - यस्मात्कारणात् विश्वस्तं- विश्वासयुक्तं मनो यस्य स विश्वस्तमनाः सन् सः श्रीपालोऽस्माकं सुखहतो भवति, सुखेन हतं हननं यस्य स इति समासः ॥ ६२७ ॥ ततो धवलस्तुष्टं मनो यस्य स तुष्टमनाः सन् भणति कथयति, मम वरमित्रं- प्रधानसुहृद् त्वमेवासि, किन्तु मम वाञ्छितानां सिद्धिः कथं भविष्यति त्वं कथय ॥ ६२८ ॥ स आह- योधनार्थं युद्धादिकरणार्थं दवरकाधारेण मण्डिते मञ्चे कथंकथमपि केन केनापि प्रकारेण केनापि कुतूहलमिषेणकौतुकव्याजेन तं श्रीपालं 'चडाविय' त्ति आरोह्य ॥ ६२९ ॥ छन्नं प्रच्छन्नमेव दवरके छिन्ने सति सः निश्वयतः समुद्रे पतिष्यति, ततः - तदनन्तरं निरपवादं यथा स्यात्तथा तव वाञ्छितस्य सिद्धिः - निष्पत्तिः भविष्यति, निर्गतः अपवादो- लोकनिन्दा यत्र कर्मणि तन्निरपवादमिति क्रियाविशेषणम् ॥ ६३० ॥
For Private and Personal Use Only
* *