________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
ྂ ཝ
**
*
*
www.kobatirth.org
१४४ *
**
अथ श्वानोपमया दुर्जनस्वरूपं दर्शयन्नाह- ते दुर्जनाः खला एव भषणाः श्वाना दुर्जनभषणा लब्धं छिद्रं छलं यैस्ते लब्धच्छिद्राः सन्तः कस्मै सुखं ददति ?, न कस्मै अपीत्यर्थः, ते के इत्याह- ये विगतो रसो-मधुरात्मको यस्मात्तद्विरसं यथा स्यात्तथा भषन्ति परं भर्त्सयन्ति श्वानपक्षेऽव्यक्तं जल्पन्ति, पुनः सविषं विषसहितं यथा स्यात्तथा दशन्ति, तथा पुनर्ये छन्नंप्रच्छन्नं यथा स्यात्तथा शिङ्घन्तो- जिघ्राणा आयन्ति, दुर्जनपक्षे सविषं दशनं परस्य विनाशकृच्छिद्रप्रकाशनं परच्छिद्रविलोकनार्थं प्रच्छन्नागमनं च बोध्यम् ॥ ६२२ ॥ तत्-तस्मात्कारणात् त्वं धवलो न भवसि, किन्तु अनया कृष्णलेश्यया कालोऽसि, तस्मात्तव दर्शनेनापि अस्माकं मालिन्यं मलिनत्वं भवति ॥ ६२३ ॥ इति भणित्वा-उक्त्वा यावत् त्रयो वरपुरुषा:- प्रधानपुरुषाः * निजनिजस्थानेषु गताः तावत्कुटिलो वक्रः स्वभावो यस्य स कुटिलस्वभावस्तुर्यः चतुर्थः पुरुषः पुनरपि तस्य धवलस्य पार्श्वे आसीन-उपविष्टः ॥ ६२४ ॥ स पुमान् धवलं प्रति जल्पति-कथयति, अहो श्रेष्ठिन् ! ईदृशो मन्त्रः- आलोचः एभ्यस्त्रिभ्यो न कथ्यते, यद्-यस्मात्कारणात् एतेऽरिभूताः शत्रुतुल्यास्तव अहितमेव चिन्तयन्ति ॥ ६२५ ॥
*
**
Acharya Shri Kailassagarsuri Gyanmandir
विरसं भसंति सविसं, डसंति जे छन्नमिंति सुंघंता । ते कस्स लद्धछिद्दा, दुज्जणभसणा सुहं दिंति ? ॥६२२॥ ता तं न होसि धवलो, कालोऽसि इमाइ किण्हलेसाए । ता तुज्झ दंसणेणवि, मालिन्नं होइ अम्हाणं ॥६२३॥ इअ भणिअ गया निअनिअ - ठाणेसुं जाव तिन्नि वरपुरिसा । तुरिओ कुडिलसहावो, पुणोवि तप्पासमासीणो ॥६२४॥ सो जंपइ धवलं पड़, न कहिज्जइ एसिमेरितं मतं । 'एए अरिभूया, तुह अहिअं चैव चिंतंति ॥ ६२५॥
For Private and Personal Use Only