SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * ** सि रि रि वा ल क हा १४३ * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलिणा कुडिलगईओ, परछिद्दरया य भीसणा डसणा । पयपाणेणवि लालयंतस्स मारंति दोजीहा ॥६२०॥ पयडियकुसीलयंगा, कयकडुयमुहा य अवगणिअणेहा । मलिणा कढिणसहावा, तावं न कुणंति कस्स खला ? ॥६२१॥ मलिणेत्यादि, अस्या गाथाया अन्ते द्विजिह्वशब्दो द्वयर्थवाचकोऽस्ति, द्विजिह्नः खलपुरुषः सर्प चोच्यते, भयोर्विशेषणसाम्येन तुल्यत्वं दर्शयन्नाह - द्विजिह्वाः खलाः सर्पाश्च पयःपानेन दुग्धपायनेन लालयन्तं- पालयन्तमपि पुरुषं मारयन्ति, उभयेऽपि कीदृशाः ? इत्याह- मलिना- वर्णतो भावतश्व मलीमसाः, पुनः कुटिला-वक्रा गतिः- गमनं चेष्टा च येषां ते तथोक्ताः, च- पुनः परच्छिद्रेषु - परकीयदोषेषु परजन्तुनिवासविवरेषु च रता-रक्ताः पुनः भीषणा-भयानकाः तथा दशनाजिह्वया दंष्ट्राभिव परघातकारकाः ॥ ६२० ॥ अथ ज्वरोपमया दुर्जनस्वरूपं दर्शयन्नाह- इहानुक्तमपि ज्वरा इति उपमानपदमर्थसम्बन्धाद् ग्राह्यं, ततोऽयमन्वयः - खलाः- दुर्जनाः पुरुषा ज्वरा इव कस्य तापं न कुर्वन्ति ? सर्वस्यापि कुर्वन्तीत्यर्थः, उभयेपि कीदृशा इत्याह-प्रकटिता प्रकटीकृता कुशीलता कुत्सितस्वभावता अङ्गे- शरीरे यैस्ते तथा ( कृतानि कटुकानि मुखानि यैस्ते ) तथाऽवगणितः - अनादरविषयीकृतः स्नेहः- प्रेम यैस्ते ज्वरपक्षेऽवगणितः स्नेहो - घृतादिर्येषु सत्सु तथा मलिना एके भावतोऽन्ये देहमालिन्योत्पादकत्वात्, अत एव उभयेऽपि कठिनस्वभावाः कठिनः स्वभावो येषां ते तथोक्ताः, ज्वरपक्षे देहे काठिन्योत्पादनात् ॥ ६२१ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy