________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************
अह चित्तमासअट्ठाहिआउ विहिआउ तत्थ विहिपुवं । सिरिसिद्धचक्कपूआविहीवि आराहिओ तेण ॥५८८॥ अन्नदिणे तस्स जिणालयस्स सुबलाणयंमि आसीणो । राया कुमारसहिओ, कारावइ जाव जिणमहिमं ॥५८९॥ ता दंडपासिएणं, विन्नत्तो देव ! सत्थवणिएणं । एगेण दाणभंगं, काउं आणावि तुह भग्गा ॥५९०॥ सो अस्थि मए बद्धो, एसो को तस्स सासणाएसो ? ! राया भणेइ आणाभंगे पाणा हरिजंति ॥५९१॥ कुमरो भणेइ मा मा, मारणादेसमिह ठिओ देसु । सावज्जवयणकहणेवि जिणहरे जेण गुरुदोसो ॥५९२॥
अथ-अनन्तरं तेन श्रीपालकुमारेण तत्र नगर्यां विधिपूर्वं चैत्रमासस्य अष्टाह्निका विहिता-कृता, श्रीसिद्धचक्रस्य पूजाविधिरपि आराधितः-सेवितः, अत्र पूर्वार्धे एकस्तुशब्दो विशेषे द्वितीयः पादपूरणे ॥ ५८८ ॥ अन्यस्मिन् दिने तस्य जिनालयस्य-जिनगृहस्य सुबलानके जनोपवेशनस्थाने आसीन-उपविष्टो राजा कुमारसहितो यावत् जिनस्य-भगवतो महिमानं कारयति ॥५८९॥ तावत् दण्डपाशिकेन-दण्डनियोगिपुरुषेण राजा विज्ञप्तः हे देव !- हे राजन् ! एकेन सार्थवणिजा दानभङ्गं कृत्वा तवाज्ञाऽपि भग्ना ॥५९०॥स एष सार्थवणिक् मया बद्धोऽस्ति, तस्य कः शासनादेशः-का शिक्षणाज्ञा ? को दण्ड इत्यर्थः, तदा राजा भणति- आज्ञाभड्ने प्राणा हियन्ते, प्राणापहारः क्रियते इत्यर्थः ॥ ५९१॥ एतन्नृपवचः श्रुत्वा कुमारो भणति हे महाराज! इह-जिनालयभूमौ स्थितः सन् मारणादेशं मा मा-मा दत्स्व, मा देहीत्यर्थः, येन कारणेन जिनगृहे सावद्यस्य-सदोषस्य वचनस्य कथनेऽपि गुरुः-महान् दोषोऽस्ति ॥ ५९२ ॥
****************************
१३६
*******
For Private and Personal Use Only