SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ये *-*-*-*-*-*-*-****************** सुत्तत्थसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणं । पीणंति जे ते उवझायराए, झाएह निच्चंपि कयप्पसाए ॥५६७॥ खंते अदंते अ सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए ॥ ५६८ जं दबछक्काइसुसद्दहाणं, तं दंसणं सब्वगुणप्पहाणं । कुग्गाहवाहीउ वयंति जेण, जहा विसुद्धेण रसायणेण ॥ ५६९॥ ये उपाध्यायाः सूत्रार्थसंवेगमयश्रुतेन भव्यान् प्रीणन्ति-तृप्तीकुर्वन्ति तान् उपाध्यायराजान् नित्यमपि यूयं ध्यायत, सूत्रं च अर्थश्च संवेगमयश्रुतं च एषां समाहारः सूत्रार्थसंवेगमयश्रुतं तेन, कीदृशेन-सन्नीर० सन्नीरं-सम्यग्जलं क्षीरं-पयः अमृतंसुधा तद्वद्विश्रुतेन-प्रसिद्धेन, अयं भावः- सूत्रं स्वादुनीरोपम् अर्थश्च क्षीरोपमः संवेगमयश्रुतं तु अमृतोपममिति, कीदृशान् उपाध्यायराजान् ? कृतः प्रसादः-अनुग्रहो यैस्ते तान् ॥ ५६७ ॥क्षान्तान्-क्षमायुक्तान् दान्तान्-दमयुक्तान् चकारौ समुच्चये सुगुप्तिभिः-मनोगुप्त्यादिभिर्गुप्तान्-गुप्तिमतः मुक्तान्-निर्लोभान् प्रशान्तान्-शान्तरसोपेतान् पुनः गुणानां योगः-सम्बन्धस्तेन युक्तान्, तथा गताः प्रमादा-मद्यादयो येभ्यस्ते तान्, पुनर्मोहश्च माया च मोहमाये हते मोहमाये यैस्ते तान्, एवंस्वरूपान् मुनिराजपादान-मुनिराजपूज्यान यूयं नित्यं ध्यायत ॥५६८ ॥ यत् द्रव्यषट्कादेः सुष्टु-शोभनं श्रद्धानं तद् दर्शनं नाम धर्म सर्वगुणेषु प्रधानं वर्त्तते येन सम्यग्दर्शनेन कुग्राहा-हतवादा एव व्याधयो-रोगा व्रजन्ति-गच्छन्ति यथा विशुद्धन-निर्मलेन रसायनेन, अयं भावः- जराव्याधिजिदौषधं रसायनमुच्यते, तेन यथा रोगाः सर्वेऽपि गच्छन्ति तथा दर्शनेन कुप्राहा व्रजन्ति ॥ ५६९॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy