________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************************
जहा-जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयपहाणे संदेहसंदोहरयं हरते, झाएह निच्चंपि जिणेऽरिहंते ॥५६४॥ दुट्ठकम्मावरणप्पमुक्के, अणंतनाणाइसिरीचउक्के समग्गलोगग्गपयपसिद्धे, झाएह निच्चंपि मणमि सिद्धे ॥५६५॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया । तम्हा हु ते चेव सया महेह जं मुक्खसुक्खाई लहुं लहेह ॥ ५६६ ॥
यथा- जिता अन्तरङ्गारिजनाः-कामक्रोधाद्यान्तरवैरिलोका यैस्ते जिता० तान्, पुनः सुष्ठु ज्ञानं येषां ते तान्, तथा || सुप्रातिहाथैः-अशोकादिभिः शेषैरतिशयैश्च प्रधानाः-प्रकृष्टास्तान्, प्रधानशब्दस्त्रिलिङ्गोऽप्यस्ति, पुनः सन्देहाना-संशयानां यः सन्दोहः-समूहस्तदेव रजस्तत् हरन्तीति हरन्तस्तान् हरन्तः, एवंविधान् जिनान्-अर्हतो नित्यमपि यूयं ध्यायत ॥ ५६४ ॥ दुष्टाष्टकर्माण्येव आवरणानि तेभ्यः प्रकर्षेण मुक्तान्, पुनः अनन्तं ज्ञानादिलक्ष्मीचतुष्कं येषां ते तान्, अनन्तज्ञानदर्शनसुखाकरणवीर्ययुतानित्यर्थः, तथा समग्रः-सम्पूर्णो यो लोकस्तस्य यदग्रपदं-उपरितनस्थानं तत्र प्रसिद्धान्प्रकर्षेण सिद्धत्वप्राप्तान एवंविधान, सिद्धान् नित्यमपि यूयं मनसि ध्यायत ॥ ५६५ ॥ इह-संसारे जीवेभ्यः तत्सुखं पिता न ददाति माता न ददाति यत् सुखं सूरिपादा-आचार्यपूज्या ददति-प्रयच्छन्ति, तस्मात् तानेव आचार्यान् यूयं सदा महतपूजयत, यत्-येन मोक्षसौख्यानि लघु-शीघ्रं लभध्वं प्राप्नुत ॥ ५६६ ॥
•********************
१
For Private and Personal Use Only