________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
he
१३२
*
*
*
*
*
*
*
*
**
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाणं पहाणं नयचक्कसिद्धं तत्तावबोहिक्कमयं पसिद्धं । धरेह चित्तावसहे फुरंतं, माणिक्कदीबुव्व तमो हरतं ॥५७०॥ सुसंवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं । मूलोत्तराणेगगुणं पवित्तं, पालेह निच्वंपिहु सच्चरित्तं ॥५७१॥ बज्झं तहाभितरभेअमेअं, कयाइदुब्भेअकुकम्मभेअं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमिअं निरासं ॥५७२॥
नयानां नैगमादीनां चक्रेण समूहेन सिद्धं निष्पन्नं पुनस्तत्त्वावबोधः- तत्त्वज्ञानमेकं स्वरूपमस्येति तत्त्वावबोधैकमयं प्रसिद्धं सर्वत्र विदितं प्रधानं-मुख्यमेवम्भूतं ज्ञानं चित्तावसथे- मनोमन्दिरे धरत, कीदृशं ज्ञानं ? -स्फुरत्-दीप्यमानमत एव माणिक्यदीपमिव तमः- अज्ञानान्धकारं हरत् ॥ ५७० ॥ भो भव्याः ! सुष्ठु संवरो यस्मिंस्तत् सुसंवरं तथा मोहनिरोध एव सारःश्रेष्ठो यत्र तत् मो० पुनः पञ्च प्रकाराः-सामायिकादयो भेदा यस्य तत् पं० तथा विगता अतिचारा यस्मात्तत् तथा मूलोत्तररूपा अनेके गुणा यस्मिंस्तत्, मूलगुणाः प्राणातिपातविरमणादय उत्तरगुणाः - पिण्डविशुद्ध्यादयः, पुनः पवित्रं पावनम्, एवम्भूतं सच्चारित्रं नित्यमपि यूयं पालयत ॥ ५७१ ॥ भो भव्या ! यूयं एतद् बाह्यं तथाऽभ्यन्तरभेदं तपस्तपत, कीदृशमेतत् ? - अतिशयेन दुर्भेदानि यानि कुकर्माणि तेषां भेदो-विदारणं कृतो येन तत् कृत०, अत एव कृतः पापनाशो येन तत्कृतपापनाशं, पुनः कीदृशम् ? -आगमे भवम् आगमिकं, तथा निर्गता आशा-वाञ्छा यस्मात्तन्निराशम्, ईदृशं तपस्तपत, किमर्थमित्याह - दुःखक्षयार्थम् ॥ ५७२ ॥
For Private and Personal Use Only
*