________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***-*-*-*-*-*-*-***************
सिरिमरुदेवासामिणि-उदरदरीदरिअकेसरिकिसोर ! । घोरभुयदंडखंडिय-पयंडमोहस्स तुज्झ नमो ॥५४८॥ इक्खागुवंसभूसण ! गयदूसण ! दूरियमयगलमइंद !। चंदसमवयण ! वियसियनीलुप्पलनयण ! तुज्झ नमो ॥५४९॥ कल्लाणकारणुत्तम-तत्तकणयकलससरिससंठाण ! । कंठट्ठियकलकुंतल-नीलुप्पलकलिय ! तुज्झ नमो ॥५५०॥
श्रीमरुदेव्याः स्वामिन्या उदरमेव दरी-गुहा तस्यामदरितो-निर्भीकः केशरिकिशोर इव-सिंहबाल इव श्रीमरुतत्सम्बोधने हे श्रीमरुदेवा • !, अत्र 'दरिय' त्ति दृप्तो दृष्ट इत्यर्थः, घोरौ-दारुणौ यौ भुजदण्डौ ताभ्यां खण्डितः प्रचण्डो मोहो येन स तस्मै तुभ्यं नमः ॥५४८॥ हे इक्ष्वाकुवंशभूषण ! पुनः गतानि दूषणानि यस्मात् स गतदूषणस्तत्सं० हे गतदूषण! पुनः दुरितानिपापान्येव मदकला-मदोत्कटगजास्तेषां वारणे मृगेन्द्रः-सिंह इव दूरितमदकलमृगेन्द्रस्तत्सं० हे दुरित पुनश्चन्द्रेण समं-तुल्यं वदनं-मुखं यस्य स चं०तत्सं० हे चन्द्रसमवदन!पुनः विकसिते ये नीलोत्पले-नीलकमले तद्वन्नयने-नेत्रे यस्य तत्सं० हे विकसित नयन ! तुभ्यं नमः ॥५४९॥ कल्याणस्य कारणं यत् उत्तमं तप्तं कनकं- सुवर्णं तस्य यः कलशस्तेन सदृशं संस्थानम्-आकारो यस्य तत्सं० हे कल्याणकारण०संस्थान ! पुनः कण्ठे स्थिता ये कला-मनोहराः कुन्तला:- पञ्चममुष्टिसम्बन्धिकेशास्त एव नीलोत्पलानि तैः कलितो-युक्तस्तत्सं० हे कण्ठस्थित कलित ! तुभ्यं नमः, कलशस्य कण्ठे नीलोत्पलानि ज्ञेयानि ॥५५०॥
*******************
*
********
For Private and Personal Use Only