________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
Is he
क
हा
१२५
**
www.kobatirth.org
सिरिसिद्धचक्कनवपय-महल्लपढमिल्लपयमय ! जिनिंद ! | असुरिंदसुरिंदच्चियपयपंकय ! नाह ! तुज्झ नमो ॥५४५॥ सिरिरिसहेसरसामिय !, कामियफलदाणकप्पतरुकप्प ! | कंदष्पदप्पगंजण !, भवभंजण ! देव ! तुज्झ नमो ॥५४६॥ * सिरिनाभिनामकुलगर-कुलकमलुल्लासपरमहंससम ! । असमतमतमतमोभर-हरणिक्कपईव ! तुज्झ नमो ॥५४७॥
**
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिद्धचक्रे यानि नवपदानि तेषु महत् यत्प्रथमं पदं तत्स्वरूपमस्येति श्री सिद्धचक्रनवपदमहाप्रथमपदमयस्तत्सम्बुद्धौ हे श्री० हे जिनेन्द्र ! पुनः असुरेन्द्राः- चमरबल्याद्याः सुरेन्द्राः- सौधर्मेशानादयः उपलक्षणान्नागेन्द्रादयोऽपि ग्राह्यास्तैरर्चिते - पूजिते पदपङ्कजे-चरणकमले यस्य तत्सं० हेऽसुरेन्द्रसुरेन्द्रार्चितपदपङ्कज ! हे नाथ ! तुभ्यं नमः ॥५४५॥ हे श्रीऋषभेश्वर* स्वामिन्! तथा कामितफलदाने- वाञ्छितफलप्रदाने कल्पतरुकल्पः - कल्पवृक्षतुल्यः तत्सम्बोधने हे कामितफलदानकल्पतरुकल्प ! पुनः कन्दर्पस्य कामस्य यो दर्पः - अभिमानस्तस्य गजनो-मर्दकस्तत्सं० हे कन्दर्पदगञ्जन ! पुनः हे भवभञ्जन ! हे देव ! तुभ्यं नमः ॥५४६ ॥ श्रीनाभिनामा यः कुलकरस्तस्य यत्कुलं तदेव कमलं तस्योल्लासे- विकासने परमः प्रकृष्टो हंसःसूर्यस्तत्समः- तत्तुल्यस्तत्सं० हे श्रीनाभि० ! पुनः न विद्यते समं- तुल्यं तत् असमम् उत्कृष्टमित्यर्थः, अतिशयेन असमं असमतमम् * ईदृशं यत्तमः - अज्ञानं तदेव तमोभरः-अन्धकारप्राग्भारस्तस्य हरणे एक:- अद्वितीयः प्रदीप असम० प्रदीपस्तत्सं० असम० ! तुभ्यं
*
*
नमः ॥५४७॥
For Private and Personal Use Only