________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*********************
जा जाइ मंडवंतो, कुमरो उप्फुल्लनयणमुहकमलो । ता कयकिंकाररवं अररिजुयं झत्ति उग्घडियं ॥५४१॥ सो तत्थ रिसहनाहं, वत्थालंकारघुसिणकयपूयं । अमिलाणकुसुमदाम, वंदिय ढोएइ फलमउलं ॥५४२॥ इत्थंतरंमि राया धूयासहिओ समागओ तत्थ । अच्छरियकारिचरियं, पिच्छइ कुमरं निहुयनिहुयं ॥५४३॥ कुमरोऽवि हरिसवसओ, पंचंगपणामलीढमहिवीढो । सिरसंठियकरकमलो, रिसहजिणिंदं थुणइ एवं ॥५४४॥
अथ कुमारः उत्फुल्लनयनमुखकमलो-विकसितनेत्रमुखकमलः सन् यावन्मण्डपान्तः-मण्डपमध्ये याति तावत् कृतः किङ्काररवः -किङ्कारशब्दो येन तत् ईदृशं अररियुगं-कपाटयुग्मं झटिति-शीघ्रं उद्घटितम् ॥५४१॥ सः श्रीपालकुमारस्तत्रजिनगृहे ऋषभनाथं देवाधिदेवं वन्दित्वाऽतुलम् -अनुपम-सर्वोत्कृष्टमित्यर्थः फलं ढोकयति, कीदृशमृषभनाथं? -वस्त्रैः - उत्तमचीरैः अलङ्कारैः-आभूषणैः घुसृणेन-कुङ्कुमेन च कृता पूजा यस्य स तं, पुनः अम्लानं-विकस्वरं कुसुमदाम-पुष्पमाला कण्ठे यस्य स तम् ॥५४२॥ अत्रान्तरे- अस्मिन्नवसरे राजा कनककेतुः पुत्रीसहितस्तत्र-जिनगृहे समागतः सन् आश्चर्यकारि चरितम्आचारो यस्य स तं तथाविधं कुमारं निभृतनिभृतं-यथा स्यात्तथाऽतिनिश्चलदृष्ट्येत्यर्थः प्रेक्षते-पश्यति ॥ ५४३ ॥ कुमारोऽपि हर्षवशात् पञ्चाङ्गप्रणामेन लीढम्-आश्लिष्टं महीपीठं येन स तथा, शिरसि-मस्तके संस्थिते करकमले यस्य स एवंविधः सन् एवं-वक्ष्यमाणप्रकारेण ऋषभजिनेन्द्र स्तौति ॥५४४॥
***************-*-*-*
******
For Private and Personal Use Only