________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तं सोऊणं बाला, संजाया हरिसजणिअरोमंचा। रायाविहु साणंदो, संजाओ तेण वयणेण ॥५२०॥ लोयावि सप्पमोआ, जाया सब्वेवि चिंतयंति अहो । किं कारणं कहिस्सइ ?, तत्तो वाणी पुणो जाया ॥५२१॥ जसु नरदिट्टिइं होइसइ, जिणहरउ मुक्कदुवारु । सोइज मयणमंजूसियह, होइसइ भत्तारु ॥ ५२२॥ गाढयरं तो तुट्ठा, सब्वे चिंतंति कस्सिमा वाणी । एवं च कया होही तत्तो जाया पुणो वाणी ॥५२३॥ सिरिरिसहेसर ओलगिणि, हउं चक्केसरिदेवि । मासब्भंतरि तसु नरह, आविसु निच्छइ लेवि ॥५२४॥
तदनन्तरोक्तं वाक्यं श्रुत्वा बाला-राजकन्या हर्षेण जनित- उत्पादितो रोमाञ्चो-रोमोद्गमो यस्याः सा ईदृशी सजाता, राजाऽपि तेन वचनेन सानन्द-आनन्दवान् सञ्जातः ॥५२०॥ लोका अपि सप्रमोदाः-सहर्षा जाताः सन्तः सर्वेऽपि चिन्तयन्तिअहो इति आश्चर्ये, किं कारणं कथयिस्यति?, ततः-तदनन्तरं पुनर्वाणी जाता ॥५२१॥ यस्य नरस्य दृष्ट्या जिनगृहं मुक्तम्उद्घटितं द्वारं यस्य तत् मुक्तद्वारं भविष्यति स एव नरो मदनमजूषाया राजपुत्र्या भर्ता-वरयिता भविष्यति ॥५२२॥ ततः सर्वेऽपि लोका गाढतरम्-अत्यर्थं तुष्टाः सन्तश्चिन्तन्ति- कस्येयं वाणी अस्ति, च-पुनः कदा-कस्मिन्काले एवं भविष्यति, ततएतच्चिन्तनानन्तरं पुनर्वाणी जाता ॥५२३॥ श्री ऋषभेश्वरस्य 'ओलगिणि'त्ति सेवाकी अहं चक्रेश्वरीदेवी अस्मि, मासाभ्यन्तरे-एकमासमध्ये तं पुरुषं लात्वा निश्चयेन आयास्यामि ॥५२४॥
***********************
For Private and Personal Use Only