________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इत्थंतरंमि जायं, विहाणयं वज्जिआई तूराइं । रायावि सपरिवारो, समुट्टिओ निअगिहं पत्तो ॥५२५॥ तत्तो कयगिहपडिमा-पूयाइविहीहिं पारणं विहियं । सब्वत्थवि वित्थरिया, सा वत्ता लोयमज्झमि ॥५२६॥ आवंति तओ लोया, सपमोया जिणहरस्स दारंमि । अणउग्घडिए तंमिवि, पुणोवि गच्छंति सविसाया ॥५२७॥ तं जिणहरस्स दारं, केणवि नो सक्कियं उघाडेउं । किंतु कओ बहुएहिंवि उग्घाडो निययकम्माणं ॥५२८॥ एवं च तस्स चेईहरस्स ढंकिअदुवारदेसस्स । संजाओ किंचूणो, मासो एयं तमच्छरियं ॥५२९॥ जइ पुण पुरिसुत्तम! तंसि चेव तं जिणहरस्स वरदारं । उग्धाडेसि धुवं तो, मिलिया चक्केसरीवाणी ॥ ५३०॥
अत्रान्तरे-अस्मिन्नवसरे 'विहाणयन्ति विभातं-प्रभातं जातं, तूराणि-प्रातःकालोचितवाद्यानि वादितानि, राजापि सपरिवारः समुत्थितः सन् निजगृहं प्राप्तः ॥५२५॥ ततः कृतगृहप्रतिमापूजादिविधिभिः उपवासत्रयस्य पारणं विहितं-कृतं, सा वार्ता सर्वत्रापि लोकमध्ये विस्तृता-विस्तारं प्राप्ता ॥५२६॥ ततः -तदनन्तरं लोकाः सप्रमोदाः-सहर्षाः सन्तो जिनगृहस्य द्वारे आयान्ति-आगच्छन्ति,अपिः पादपूरणे, तस्मिन् द्वारेऽनुद्घटिते सति सह विषादेन वर्त्तन्ते इति सविषादाः सन्तः पुनरपि गच्छन्ति स्वस्वस्थानम् ॥५२७॥ तज्जिनगृहस्य द्वारं केनापि उद्घाटयितु नो शक्तं- न समर्थीभूतं, किन्तु बहुभिरपि लोकैर्निजककर्मणाम्-स्वकीयकर्मणाम् उद्घाटः कृतः ॥ ५२८॥ एवं च -अमुना प्रकारेण 'ढडिय' ति पिहितो द्वारदेशो यस्य स तथा एवंविधस्य तस्य चैत्यगृहस्य किञ्चिदूनो मासः सञ्जातः तदेतदाश्चर्यम् ॥ ५२९॥ हे पुरुषोत्तम ! यदि पुनः त्वमेव तत्जिनगृहस्य वरद्वारं उद्घाटयसि तत्-तर्हि धुवं-निश्चितं चक्रेश्वर्या वाणी मिलिता ॥ ५३०॥
For Private and Personal Use Only