________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
उववासतिगं जायं, धूयासहियस्स नरवरिंदस्स । तो रंगमंडवोऽवि हु, रंगं नो जणइ जणहियए ॥५१५॥ सामंतमंतिपरिगह - पउरजणेसुवि विसन्नचित्तेसु । उवविद्वेसु निरंतर- जलंतदिपंतदीवेसु ॥५१६॥ केवि हु दियंति कन्नाइ दूसणं केवि नरवरिंदस्स । एवं बहुप्पयारं, परप्परालावमुहरजणे ॥५१७॥ तइयाए रयणीए, पच्छिमजामंमि निझुणिसहाए । सहसत्ति गयणवाणी, संजाया एरिसी तत्थ ॥ ५१८ ॥ दोस न कोइ कुमारिअह, नरवर दोस न कोइ । जिण कारणे जिणहरु जडिओ, तं निसुणउ सहु कोइ ॥५१९॥
तत्रैवं कुर्वतः पुत्रीसहितस्य नरवरेन्द्रस्य-राजेश्वरस्य उपवासत्रिकं जातं ततो रङ्गमण्डपोऽपि जनानां-लोकानां हृदये रङ्गं रागंन जनयति-उत्पादयति ॥५१५॥सामन्ताश्च मन्त्रिणश्च परिग्रहश्च - तत्परिकर एव पौरजनाश्च-नगरवासिलोकास्तेष्वपि विषण्णं चित्तं येषां ते विषण्णाचित्तास्तेषु उपविष्टेषु सत्सु तथा निरन्तरं ज्वलत्सु अत एव दीप्यमानेषु दीपेषु सत्सु ॥५१६॥ केपि लोकाः कन्यायै दूषणं ददति, केपि नरवरेन्द्राय दूषणं ददति, एवम्-अमुना प्रकारेण बहु प्रकारं यथा स्यात्तथा परस्परम्अन्योऽन्यं यः आलापो-भाषणं तेन मुखरे-दुर्मुखे जने-लोके सति ॥५१७॥ तृतीयस्या रजन्याः पश्चिमयामे- चतुर्थप्रहरे निर्गतो ध्वनिः-शब्दो यस्याः सा निर्ध्वनिः ईदृशी या सभा तस्याम्, तत्र रङ्गमण्डपे सहसेति-अकस्मात् ईदृशी - वक्ष्यमाणस्वरूपा गगनवाणी-आकाशवाक् साता ॥५१८॥ तामेव दोहाछन्दसा आह- अत्र कुमार्या दोषः कोऽपि नास्ति, नरवरस्य-राज्ञोऽपि दोषः न, येन कारणेन जिनगृहं जटितं-पिहितं तत्कारणं सर्वः कोऽपि लोको निश्रुणोतु-आकर्णयतु ॥५१९॥
For Private and Personal Use Only