________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandie
********************************
तं च केरिसं ?संतमणोरहतुंगं, उत्तमनरचरियनिम्मलविसालं । दायारसुजसधवलं, रविमंडलदलिअतमपडलं । ४९२॥ तम्मज्झे रिसहेसरपडिमा कणयमणिनिम्मिआ अस्थि । तिहुअणजणमणजणिआऽऽणंदा नवचंदलेहब्ब ॥४९३॥ तं सो खेयरराया, निच्चं अच्चेइ भत्तिसंजुत्तो । लोओऽवि सप्पमोओ नमेइ पूएइ झाएइ ॥४९४॥ सा नरवरस्स धूया, विसेसओ तत्थ भत्तिसंजुत्ता । अट्ठपयारं पूर्य, करेइ निच्चं तिसंझासु ॥ ४९५॥
तच्च कीदृशमित्याह- सता-सत्पुरुषाणां ये मनोरथास्तद्वत्तुङ्गम्-उच्चं, पुनरुत्तमनराणां यच्चरितम्-आचारस्तद्वन्निर्मलं विशालं च-विस्तीर्णं तथा दातुर्यत् सुष्टु-शोभनं यशस्तद्वद्ववलं, पुनः रविमण्डलं- सूर्यमण्डलं तद्वत् दलितं-खण्डितं तमःपटलम्अन्धकारवृन्दं येन तत् ॥४९२॥ तन्मध्ये-तस्य मन्दिरस्य मध्ये कनकमणिभिः-स्वर्णरत्नैनिर्मिता-रचिता ऋषभेश्वरस्य प्रतिमामूर्तिरस्ति, कीदृशी ? इत्याह- नवा-नवीना चन्द्रस्य लेखा इव त्रिभुवनजनानां-त्रैलोक्यलोकानां मनस्सु जनित-उत्पादित आनन्दो-हर्षो यया सा ईदृशी अस्ति ॥४९३॥ स खेचराणां-विद्याधराणां राजा खेचरराजो भक्त्या संयुक्तः सन् तां जिनप्रतिमां नित्यम् अर्चयति-पूजयति,लोकोऽपि-नगरवासिजनोऽपि सह प्रमोदेन-हर्षेण वर्तते इति सप्रमोदः सन्तां नमति पूजयति ध्यायति च॥४९४॥सा प्रागुक्ता मदनमञ्जूषानाम्नी नरवरस्य-राज्ञः पुत्री विशेषतो भक्तिसंयुक्ता सती तत्र-जिनगृहे त्रिसन्ध्यासु नित्यम् अष्टप्रकाराम्-अष्टविधां पूजां करोति ॥४९५॥
For Private and Personal Use Only