________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**********************
अन्नदिणे विहिनिउणा, सा नरवरनंदिणी सपरिवारा । कयविहिवित्थरपूया, भावजुया वंदए देवे ॥४९६॥ ताव नरिंदोवि तहिं, पत्तो पूयाविहिं पलोयंतो । हरिसेण पुलइअंगो, एवं चिंतइ हिययंमि ॥४९७॥ अहो अपुब्बा पूया, रइया एयाइ मज्झ धूयाए । अहो अपुव्वं च नियं, विन्नाणं दंसियमिमीए ॥४९८॥ एसा धन्ना कयपुन्निआ जीए जिणिंदपूयाए । एरिसओ सुहभावो दीसइ सरलो अ सुहहावो ॥४९९॥ ___ अन्यस्मिन् दिने विधौ-पूजाविधौ निपुणा-चतुरा सा नरवरस्य नन्दिनी-पुत्री परिवारेण सह वर्तते इति सपरिवारा तथा विधेर्विस्तरो विधिविस्तरः कृता विधिविस्तरेण पूजा यया सा कृत० पुनर्भावेन युता एवंविधा सती देवान् वन्दते, देववन्दनं करोतीत्यर्थः॥४९६॥तावन्नरेन्द्रोऽपि पूजाविधिं प्रलोकयन्-प्रकर्षेण विलोकयन् तत्र जिनगृहे प्राप्तः विशिष्टपूजादर्शनात् हर्षेण पुलकितं-रोमोद्गमयुक्तमङ्गं यस्य स ईदृशः सन् हृदये एवं चिन्तयति॥४९७॥ यथा राजा चिन्तयति तथाऽऽह- अहो इति आश्चर्ये, एतया मम पुत्र्याऽपूर्वा पूजा रचिता, ईदृशी पूजा पूर्वं कदापि न दृष्टेत्यर्थः, पुनरहो इति आश्चर्येऽनया मत्पुत्र्याऽपूर्वं निजंस्वकीयं विज्ञानं-कलाकौशलं दर्शितम् ॥४९८॥ एषा मत्पुत्री धन्या, च - पुनः कृतपुण्याऽस्ति कृतं पुण्यं यया सा, यस्या जिनेन्द्रपूजायामीदृशः शुभभावो वर्त्तते, च- पुनर्यस्याः सरल-ऋजुः सुष्ठु-शोभनः स्वभावो दृश्यते ॥४९९॥
*************
******
For Private and Personal Use Only