________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**
*
*
*
**
*
*
**
*************************
बहुपरिअरपरिअरिओ, पत्तो कुमरस्स गुड्डरदुवारं । पिक्खेइ नाडयं जा, तो सो कुमरेण आहूओ ॥४८२॥ सो कयकुमरपणामो, आसणदाणेण लद्धसम्माणो । विणयपरो वीसत्थो, उवविट्ठो कुमरपासंमि ॥४८३॥ सुरपिच्छणयसरिच्छं, तं पिच्छणयं पलोइऊण खणं । चिंतइ एस इमाए, लीलाए कोऽवि रायसुओ ॥४८४॥ थक्कंमि नाडए सो, पुट्ठो कुमरेण कोऽसि भद्द ! तुमं? । कत्थ पुरे तुह वासो ?, दिटुं अच्छेरयं किंपि? ॥४८५॥ सो जंपइ विणयपरो, कुमरं पइ देव ! इत्थ दीवंमि । सेलोऽस्थि रयणसाणू, वलयागारेण गुरुसिहरो ॥ ४८६ ॥
पुनः बहुपरिकरेण-बहुपरिवारेण परिकरितः-परिवृतः ईदृशः कुमारस्य गुडुरद्वारं-पटावासद्वारं प्राप्तः सन् यावन्नाटकं प्रेक्षते तावत कमारेण स पुरुषः आहतः-स्वपावें आकारितः॥४८२॥ स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः, तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारेणासनं दापितं तेन प्राप्तसन्मान इत्यर्थः, पुनः विनयपरो-नम्रताकरणतत्परः, तथा विश्वस्तः-सुस्थचित्तः, एवंविधः सन् कुमारपावे उपविष्टः॥४८३॥ सुरप्रेक्षणकेन-देवनाटकेन सदृशं तत्प्रेक्षणकं नृत्यं क्षणं यावत् प्रलोक्य-दृष्ट्वा चिन्तयति-विचारयति, अनया लीलया एष कोऽपि राजसुतोऽस्ति ॥४८४॥ अथ नाटके पूर्णीभूते सति स पुरुषः कुमारेण पृष्टः- हे भद्र ! त्वं कोऽसि ? कुत्र पुरे तव वासो-निवासोऽस्ति, तथा किमपि आश्चर्यं दृष्टं ?, दृष्टं चेत्कथयेति भावः ॥४८५॥ एवं कुमारेण पृष्टे सति स पुमान् विनयपरः सन कुमारं प्रति जल्पति-कथयति, हे देव !-हे महाराज! अत्रअस्मिन् द्वीपे वलयाकारेण-कटकाकृत्या रत्नसानुर्नाम शैलः-पर्वतोऽस्ति, कीदृशः ? गुरूणि-महान्ति शिखराणि यस्य स गुरुशिखरः ॥४८६॥
*
*
**
*
*
*
*
**
For Private and Personal Use Only