SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि स वा * * कुमरोवि सपरिवारो, पडवंसावासमज्झमासीणो । पिक्खेइ नाडयाई, विमाणमज्झट्ठियसुरुव्व ॥४७७॥ * सिट्ठीवि तंमि दीवे, बहुलाभं मुणिय विन्नवइ कुमरं । देव! निअवाहणाणं, कयाणगे किं न विक्केह ? ॥४७८॥ * तो भणइ कुमारो ताय ! अम्हतुम्हाण अंतरं नत्थि । तं चिअ कयाणगाणं, जं जाणसि तं करिज्जासु ॥४७९॥ हि सिट्ठी चिंत, हुं हुं निअजाणियं करिस्सामि । जेण कयविक्कओ च्चिय, वणिणो चिंतामणिं बिंति ॥४८०॥ * इत्तो अ कोऽवि पुरिसो, सुरसरिसो चारुरूवनेवत्थो । सुपसन्ननयणवयणो, उत्तमहयरयणमारूढो ॥४८१ ॥ * रि * * ल क हा १११ www.kobatirth.org * * * * Acharya Shri Kailassagarsuri Gyanmandir कुमारोऽपि स्वपरिवारसहितः पटवंशावासमध्यं-वंशयुक्तपटगृहस्य मध्ये आसीनः - उपविष्टः सन् नाटकानि प्रेक्षतेपश्यति, क इव ? - विमानमध्यस्थितः सुरो- देव इव ॥४७७॥ श्रेष्ठी अपि तस्मिन् द्वीपे बहुलाभं मुणित्वा-ज्ञात्वा कुमारं विज्ञपयतिहे देव ! - हे महाराज ! निजवाहनानां स्वकीयपोतानां क्रयाणकानां किं नाम-कथं न विक्रीणासि ॥४७८॥ ततः कुमारो भणतिहे तात! अस्माकं युष्माकं च अन्तरं नास्ति, त्वमेव क्रयाणकानां यज्जानासि तत् कुरुष्व ॥ ४७९ ॥ एतत् श्रीपालवचः श्रुत्वा श्रेष्ठी हृष्टः सन् चिन्तयति - अथाहं निजज्ञातं करिष्यामि, येन कारणेन वणिजो व्यापारिणः क्रययुक्तो विक्रयः क्रयविक्रयः, क्रयविक्रय एव चिन्तामणि- वाञ्छितार्थसाधकरत्नं ब्रुवन्ति लोकाः ॥४८०॥ इतश्च कोऽपि पुरुषः सुरसदृशो देवतुल्यः, पुनः रूपम् - आकृतिः नेपथ्यं-वेषः चारुणी-मनोज्ञे रूपनेपथ्ये यस्य सः, पुनः नयने च वदनं च नयनवदनं, सुप्रसन्नं नयनवदनं नेत्रमुखं * यस्य सः, पुनः उत्तमं हयरत्नम् - अश्वरत्नम् आरूढः ॥४८१ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy