________________
Shri Mahavir Jain Aradhana Kendra 嫩
सि
रि
सि
रि
वा
श्र अ
हा
११०
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहह किमेयं जायं, जं एसो मज्झ सेवगसमाणो । सामित्तमिमं पत्तो भाडयमित्तं न मे दाही ॥४७२॥ इअ चिंतिय सो जाय, कुमरं गयमासभाडयं सोऽवि । दावेइ दसगुणं तं, ही केरिसमंतरं तेसिं? ॥४७३॥ आरोविऊण कुमरं, तत्थ महापवहणे सपरिवारं । मुकलाविऊण धूयं, महकालो जाइ नियनयरिं ॥४७४ ॥ पण जणा जलहिं, लंघिय पावंति रयणदीवं तं । जह संजमेण मुणिणो, संसारं तरिय सिवठाणं ॥ ४७५ ॥ तत्थ य पोए तडमंदिरेसु गुरुनंगरेहिं थंभित्ता । उत्तारिऊण भंड, पडमंडवमंडले ठवियं ॥४७६॥
अति खेदे, एतत् किं जातं यत्-यस्मात्कारणात् एषः- श्रीपालो मम सेवकसमानः- अनुचरतुल्य इदं स्वामित्वं प्राप्तः, अथ भाटकमेव भाटकमात्रं मे मह्यं न दास्यति ॥ ४७२ ॥ इति चिन्तयित्वा विचार्य सः- धवलः कुमारं गतमासस्य भाटकं याचते, सः कुमारोऽपि तद् भाटकं दशगुणं दापयति, ही इति विस्मये, तयोर्द्वयोः - कुमारश्रेष्ठिनोः कीदृशमन्तरं ?, महान् भेद इत्यर्थः ॥४७३॥ अथ महाकालो राजा तत्र महाप्रवहणे- बृहद्यानपात्रे सपरिवारं कुमारमारोप्य पुत्रीं मुकलाप्य पुत्र्या मुकलापं कृत्वा निजनगरीं याति ॥ ४७४ ॥ जना लोकाः पोतेन प्रवहणेन जलधिं-समुद्रं लङ्घित्वा तं प्रसिद्धं रत्नद्वीपं प्राप्नुवन्ति, तत्र दृष्टान्तमाह-यथा मुनयः संयमेन संसारं तीर्त्वा शिवस्थानं मुक्तिपदं प्राप्नुवन्ति तथेत्यर्थः ॥४७५॥ तत्र च रत्नद्वीपे तटबिन्दरेषु पोतान् गुरुनङ्गरैः- लोहमयबृहत्पोतस्तम्भनोपकरणैः स्तम्भित्वा रुद्ध्वा तन्मध्यस्थं भाण्डं-क्रयाणकमुत्तार्य पटमण्डपानांपटगृहाण मण्डले - समूहे स्थापितम् ॥४७६ ॥
१ मुकलाप इत्ययं देशीवचनः
For Private and Personal Use Only