________________
Acharya Shri Kailassagarsur Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
***************************
आमंति कुमारेणं, भणिए महया महुस्सवेण निवो । परिणावइ नियधूयं देइ सिरिं भूरिवित्थारं ॥४६८॥ नवनाडयाई दाइज्जयंमि दाऊण चारुवत्थेहिं । परिहावइ परिवारं, कुमरेण सहागयं सयलं ॥४६९॥ एगं च महाजुंगं , वाहणरयणं च मंदिरे पत्तं । काऊण कुमरसहिओ, रायावि समागओ तत्थ ॥४७०॥ सिट्ठीवि महाजुंगं, दटुं चउसट्ठिकूवयसणाहं । मणिकंचणपडिपुन्नं, चिन्तइ निययंमि हिययंमि ॥४७१॥
तदा कुमारेण 'आममिति भणिते सति-अङ्गीकृतमित्युक्ते सति महता महोत्सवेन-अतिमहोत्सवेन नृपो-महाकालभूपो निजपुत्रीं परिणाययति-उद्वाहयति, भूरिः-बहुविस्तारो यस्याःसा भूरिविस्तारा तां श्रियं-लक्ष्मी ददाति ॥४६८॥परिणयनकाले वधूवरयोर्देयद्रव्ये नवसङ्घयानि नाटकानि दत्त्वा कुमारेण सह-सार्धमागतंसकलं-समस्तं परिवारंचारु वस्त्रैः-मनोज्ञदुकूलादिभिः परिधापयति ॥४६९॥च - पुनः एकं महाजुङ्गनामकं वाहनरत्न-प्रधानयानपात्रं बिन्दरे प्राप्तं कृत्वा कुमारसहितो राजापि तत्र-बिन्दरे समागतः ॥४७०॥ अथ धवलाख्यश्रेष्ठी अपि चतुष्षष्ट्या कूपकैः-कूपस्तम्भैः सनार्थ-सहितं पुनः मणिकाञ्चनैः प्रतिपूर्ण महाजुङ्गं यानपात्रं दृष्ट्वा निजके स्वकीये हृदये-मनसि चिन्तयति-विचारयति । किं चिन्तयति ? इत्याह-॥४७१॥
१ आमिति निपातोऽङ्गीकारार्थे ॥
For Private and Personal Use Only