________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
**********************
वारंतस्सवि धवलस्स तस्स कुमरो समत्थपरिवारो । पत्तो महकालपुरं, तोरणमंचाइकयसोहं ॥४६३॥ महकालो तं कुमरं, भत्तीइ नियासणंमि ठावित्ता ॥ पभणेइ इमं रज्जं, मह पाणावि हु तुहायत्ता ॥ ४६४॥ अन्नं च मज्झ पुत्ती, पाणेहिंतोऽवि वल्लहा अस्थि । नामेण मयणसेणा, तं च तुमं पसिय परिणेसु ॥४६५॥ कुमरेणं भणियमहं, विदेसिओ तह अनायकुलसीलो । तस्स कहं नियकन्ना, दिज्जइ ? सम्मं विआरेसु ॥४६६॥ पभणेइ महाकालो, आयारेणावि तुह कुलं नायं । न य कारणं विएसो, कुणसु इमं पत्थणं सहलं ॥४६७॥
तस्य धवलस्य वारयतोऽपि सतः-एतावता वारयन्तमपि धवलमनादृत्येत्यर्थः समस्तः-संपूर्णः परिवारो यस्य स एवंविधः कुमारो महाकालभूपस्य पुरं प्राप्तः, कीदृशं पुरं?-तोरणमञ्चादिभिः कृता शोभा यस्य तत् तथोक्तम् ॥४६३॥ अथ महाकालो नृपस्तं कुमारं भक्त्या निजासने स्थापयित्वा-उपवेश्य प्रकर्षण भणति- इदं राज्यं त्वदायत्तं-तवाधीनमस्ति, किंबहुना ?, हु इति निश्चित, मम प्राणा अपि त्वदायत्ताः -त्वदधीनाः सन्ति ॥४६४॥ अन्यच्च-प्राणेभ्योऽपि वल्लभा नाम्ना मदनसेना मम पुत्री अस्ति, तां च मम पुत्रीं त्वं प्रसद्य-प्रसन्नीभूय परिणयस्व ॥४६५॥ कुमारेण भणितम्- अहं वैदिशिकस्तथाऽज्ञाते कुलशीले यस्य सोऽज्ञातकुलशीलोऽस्मि, तस्मै मह्यं निजकन्या कथं दीयते ?, सम्यग विचारय ॥४६६॥ एवं कुमारेणोक्ते सति महाकालः प्रभणति-अस्माभिस्तु आचारेणापि तव कुलं ज्ञातं, पुनस्त्वया स्वस्य वैदेशिकत्वमुक्तं तत्रोच्यते-न च विदेशः कारणं कन्याऽप्रदाने इति शेषः, तस्मात् इमां प्रार्थनां सफलां कुरुष्व ॥४६७॥
For Private and Personal Use Only