________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
*-*-*-*-*-*-*******************
नटुं धवलभडेहि, बब्बरवइतेअमसहमाणेहिं । पयचारी जुझंतो, धवलो पुण पाडिओ बद्धो ॥४३८॥ | तं बंधिऊण रक्खे, राया सुहडे निओइऊण निए । सत्थस्स रक्खणत्थं, सयं च चलिओ पुराभिमुहं ॥ ४३९॥ इत्थंतरंमि कुमरो, धवलं बुल्लावए कहसु इण्हि । ते सुहडा कत्थ गया, जेसिं दिन्ना तए कोडी ? ॥४४०॥ धवलो भणेइ- भो भो, खयंमि किं कुणसि खारपक्खेवं ?। किंवा दड्डाणुवरिं, फोडयदाणक्कियं कुणसि ?॥४४१॥ तो कुमरो भणइ फुडं, अज्जवि जइ कोवि तुज्झ सब्वस्सं । वालेइ तस्स किं देसि ? मज्ज साहेसु तं सव्वं ॥४४२॥
तदा बर्बरपतेः-बर्बरकुलस्वामिनो राज्ञस्तेजोऽसहमानैर्धवलस्य भटैनष्टं-प्रतिदिशं भग्नं, ततः पदचारी सन् युध्यमानो धवलः पुनः पातितो बद्धश्च ॥४३८॥राजा-महाकालस्त-धवलं वृक्षे बन्धयित्वा सार्थस्य रक्षणार्थं निजान-स्वकीयान् सुभटान् नियोज्य-संस्थाप्य स्वयम्-आत्मना च पुराभिमुखं चलितः॥४३९॥ अत्रान्तरे-अस्मिन्नवसरे श्रीपालकुमारो धवलं जल्पयति, अहो धवल ! त्वं कथय इदानीं-साम्प्रतं ते सुभटाः क्व गता? येभ्यस्त्वया दीनाराणां कोटिदत्ता ॥४४०॥ तदा धवलो भणतिभो भो क्षते-प्रहतेज्ने क्षारस्य प्रक्षेपं किं करोषि-कथं विदधासीत्यर्थः, वाऽथवा दग्धानामुपरि स्फोटकदानक्रियां किंकरोषि ? इदमयुक्तं भवादृशानामित्यर्थः ॥४४१॥ ततः-तदनन्तरं कुमारः स्फुटं-प्रकटं भणति, भो श्रेष्ठिन् ! अद्यापि यदि कोऽपि तव सर्वस्वं वालयति तर्हि तस्मै त्वं किं ददासि ? मह्यं तत् सत्यं कथय ॥४४२॥
For Private and Personal Use Only