________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
मग्गंताणवि तेसिं, लागं नो देइ जाव सो सिट्ठी । ता तेहिं महाकालोऽवहाविओ बब्बराहिबई ॥४३४॥ महाकालो भूरिबलो, तत्थागंतूण मग्गए लागं । सिट्ठी न देइ पद्धरपएहिं सुहडे पचारेइ ॥४३५॥ तो धवलभडा उब्भडसत्था सहसत्ति बब्बरभडेहिं । जुझंति जओ लोए, मरंति पच्चारिआ सुहडा ॥४३६॥ पढमं धवलभडेहिं, भग्गं महकालभडबलं सयलं । तो महकालनिवेणं, उट्ठविअं सबलतुरएणं ॥ ४३७॥
मार्गयता-याचमानानामपि तेषां राजपुरुषाणां यावत् स श्रेष्ठी लागं न ददाति तावत् तैः पुरुषैर्महाकालो नाम बर्बराधिपतिः-बर्बरकूलस्वामी अवधावितः, तत्र गमनार्थं प्रेरित इत्यर्थः ॥४३४॥ ततो भूरि-प्रचुरं बलं-सैन्यं यस्य स एवंविधो महाकालो राजा तत्र-बिन्दरे आगत्य लागं मार्गयति, परं धवलः श्रेष्ठी न ददाति,किन्तु प्रधरपदैः सुभटान् प्रचारयति-युद्धार्थ प्रेरयति ॥४३५॥ ततः-तदनन्तरं उद्भटानि-भयजनकानि शस्त्राणि येषां ते एवंविधा धवलभटाः सहसा इति-सद्यस्तत्क्षणमित्यर्थः बर्बरराजस्य भटैः सह युद्ध्यन्ते-युद्धं कुर्वन्ति, यतो-यस्मात्कारणात् लोके सुभटाः प्रचारिताः-पौरुषोत्पादकवचनैः प्रेरिताः सन्तो म्रियन्ते, स्वस्वामिनोऽग्रेप्राणान् त्यजन्तीत्यर्थः ॥४३६॥ तदा प्रथमं धवलस्य भटैः सकलं- समस्तं महाकालराजस्य भटानां बलं-सैन्यं भग्न, ततः-तदनन्तरं महाकालनृपेण सबलो-बलवान् तुरगः अश्वो यस्य स तेन अश्वरत्नारूढेन सता उत्थितं, स्वयं युद्धाय गम्यते स्मेत्यर्थः ॥४३७॥
For Private and Personal Use Only