________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
*-*-*-*-*-*-*-*-*-**********
धवलो भणेइ न हु संभवेइ एवं तहावि तस्स अहं । देमि सब्बस्स अद्धं, इत्थ पमाणं परमपुरिसो ॥ ४४३॥ तो कुमरो धणुहकरो, अंसेसुऽणुबद्धउभयतूणीरो । बुल्लावइ महकालं, पिट्ठी गंतूण इक्विल्लो ॥४४४॥ भो बब्बरदेसाहिब !, एवं गंतुं न लब्भए इण्हि । ता वलिऊण बलं मे, पिक्खसु खणमित्तमिक्स्स ॥४४५॥ तो वलिओ महकालो, पभणइ बालोऽसि दंसणीओऽसि । वररूवलक्खणधरो, मुहियाइ मरेसि किं इक्को ? ॥४४६॥ कुमरोवि भणइ-नरवर !, इअ वयणांडबरेण काउरिसा । भज्जंति तुह सरेहिवि, मह हिययं कंपए नेव ॥४४७॥
तदा धवलो भणति-हु इति निश्चये, एवं न सम्भवत्येव-गतस्य पश्चाद्वलनं कुतोऽपि इत्यर्थः,तथापि यो मम सर्वस्वं वालयति तस्मै अहं सर्वस्वस्य-सर्वद्रव्यस्य अर्धं ददामि, अत्र परमपुरषः-परमेश्वरःप्रमाणं-साक्षीत्यर्थः॥४४३॥ ततः-तदनन्तरं धनुः-कोदण्डं करे-हस्ते यस्य स धनुःकरः, तथाऽसयोः-स्कन्धयोः अनुबद्धौ-पश्चाद्वद्वौ उभौ-द्वौ तूणीरी-शराश्रयौ येन स एवंविधः कुमारः एकाकी सन् पृष्ठौ गत्वा महाकालं राजानं जल्पयति ॥४४४॥ कथं जल्पयतीत्याह-भो बर्बराधिप! इदानीं-साम्प्रतं एवम्अमुना प्रकारेण गन्तुं त्वया न लभ्यते- न प्राप्यते, तस्माद्वलित्वा क्षणमात्रमेकस्य मम बलं प्रेक्षस्व ॥४४५॥ ततो वलितो महाकालः प्रभणति-प्रकर्षेण वक्ति, त्वं बालोऽसि पुनः दर्शनीयोऽसि-द्रष्टुं योग्योऽसि तथा (वराणि-श्रेष्ठानि) रूपंच लक्षणानि च धरतीति धर एवंविधस्त्वम् एकः- एकाकी मुधिकया-वैयर्थेन किं म्रियसे ॥४४६॥ तदा कुमारोऽपि भणति-हे नरवर-हे राजन्! इत्येतद्वचनाडम्बरेण कापुरुषाः-कातरा नरा भज्यन्ते, मम हृदयं तव शरैः-बाणैरपि नैव कम्पतेऽतो वृथा वागाडम्बरं मा कृथाः- ममापि हस्तौ पश्येत्यर्थः ॥४४७॥
*-*-*-****************
*-*-*-
*-*--*-
For Private and Personal Use Only