________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************
सोऊण कुमरहवं, सहसा सा खुद्ददेवया नट्ठा । चलियाई पवहणाई, वद्धावणयं च संजायं ॥४११॥ वज्जंति भेरिभुंगल-पमुहाउज्जाई गहिरसद्दाइं । नच्चंति नट्टियाओ, महुरं गिज्जति गीआइं॥४१२॥ तं अच्छरिअंदळं, धवलो चिंतेइ एस जइ होइ । अम्ह सहाओ कहमवि, ता विग्धं होइ न कयावि ॥४१३॥ इअ चिंतिऊण धवलो, तं दीणाराण सयसहस्सं च । दाऊण विणयपणओ, भणेइ भो भो महाभाग! ॥४१४॥ दीणारसहसइक्विक्कमित्तयं वरिसजीवणं दाउं । संगहिया संति मए, दससहस भडा ससोंडीरा ॥४१५॥
कुमारस्य हक्कां श्रुत्वा सहसा-अकस्मात् सा क्षुद्रदेवता-दुष्टदेवी नष्टा-पलायिता प्रवहणानि चलितानि च - पुनर्वर्धापनक सञ्जातम् ॥४११॥ तथा भेरीभुङ्गलप्रमुखाणि-दुन्दुभिप्रभृतीनि आतोद्यानि-वादित्राणि वाद्यन्ते, कीदृशानि ?-गम्भीरशब्दानि तथा नर्तक्यः स्त्रियो नृत्यन्ति, मधुरं यथा स्यात्तथा गीतानि गीयन्ते ॥४१२॥ तत् आश्चर्यं दृष्ट्वा धवलश्चिन्तयति यद्येष पुमान् कथमपि-केनापि प्रकारेण अस्माकं सहायो भवति तत्-तदा कदापि-कस्मिन्नपि काले विघ्नं न भवति ॥४१३॥ इतिअमुना प्रकारेण चिन्तयित्वा धवलो दीनाराणां शतसहस्र-लक्षं च कुमाराय दत्त्वा विनयेन प्रणतो-नम्रीभूतः सन् तं कुमार भणति- भो भो महाभाग !- हे महाभाग्यवान् ! ॥४१४॥ एकैकदीनारसहस्रमात्रं वर्षस्य जीवनम्-आजीविकां दत्त्वा मया शौण्डीर्येण-पराक्रमेण सह वर्तमानाः सशोण्डीर्या दशसहस्रभट्टाः सङ्गृहीताः सन्ति ॥४१५॥
*-*-*-*-*-*-****************
*
****
For Private and Personal Use Only