________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मैं मैं मैं
मैं मैं
मैं
काऊण अंजलिं मत्थयंमि तो विन्नवेइ तं धवलो । देव तुममेरिसीए, सत्तीए कोऽवि खयरोऽसि ॥४०६॥ ता मह कुणसु पसायं, थंभणबेडीण मोयणोवायं । किंपि हु करेह जेणं, उवयारकरा हु सप्पुरिसा ॥४०७॥ कुमरेणुत्तं जइ तुह, मोयाविजंति जाणवत्ताई। ता किं लभइ सोऽवि हु, भणेइ दीणारलक्खंति ॥४०८॥ तत्तो चल्लइ कुमरो, विअसिअवयणो य लोअपरिअरिओ। चडिओ य धवलसहिओ, अग्गिल्ले जाणवतंमि ॥४०९॥ निज्जामएसु नियनियपवहणवावारकरणपवणेसु । कयनवपयझाणेणं, मुक्का हका कुमारेणं ॥४१०॥
ततः-तदनन्तरं धवलो मस्तकेअलिं कृत्वा तं श्रीपालं विज्ञपयति-हे देव-हे महाराज ! त्वमीदृश्या शक्त्या कोऽपि खेचरोविद्याधरोऽसि ॥४०६॥ तत्-तस्मात्कारणात् ममोपरि प्रसादं कुरुष्व, मम स्तम्भितबेडिकानां मोचनस्य उपायं किमपि कुरु, येन कारणेन सत्पुरुषा, हु इति निश्चितम् उपकारं कुर्वन्तीति-उपकारकरा भवन्ति ॥४०७॥ कुमारेणोक्तं यदि तव यानपात्राणिवहनानि मोच्यन्ते तत्-तर्हि किं लभ्यते ?, तदा स धवलोऽपि भणति- दीनाराणां- सौवर्णिकानां लक्षमिति ॥४०८॥ ततःतदनन्तरं कुमारः विकसितं वदनं-मुखं यस्य स विकसितवदनः च - पुनः लोकैः परिकरितः-परिवृतः सन् चलति, च - पुनः धवलेन सहितोऽग्रिमे-अग्रतने यानपात्रे चटित-आरूढः ॥४०९॥ तदा निर्यामकेषु-पोतवाहकेषु निजनिजप्रवहणव्यापारकरणे प्रवणेषु-तत्परेषु सत्सु कृतं नवपदध्यानं येन स तेन एवंविधेन कुमारेण हक्का मुक्ता-उच्चैःस्वरेण हक्कारवः कृत इत्यर्थः, निजो निजः-स्वकीयः स्वकीयो यः प्रवहणस्य-पोतस्य व्यापारस्तस्य करणे प्रवणा इति समासः ॥४१०॥
मैं मैं
मैं मैं मैं.
For Private and Personal Use Only