________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****************
जइ तंपि हु ओलग्गं, गिण्हसि ता कहसु जीवणं तुज्झ । कित्तियमित्तं दिज्ज, जेण तुमं गरुयमाहप्पो ॥४१६॥ हसिऊण भणइ कुमरो, जित्तियमित्तं इमेसिं सब्वेसिं । दिन्नं जीवणवित्तं तित्तियमित्तं ममिक्कस्स ॥४१७॥ तो सहसा विम्हियओ, लिक्खं गणिऊण चिंतए सिट्ठी । दीणारकोडि एगा, सब्वेसिं जीवणं अत्थि ॥४१८॥ एगो मग्गइ कोडिं, अहह अजुत्तं विमग्गियं नृणं । एएसिं किं अहियं, सिज्झिस्सइ कज्जममुणाऽवि ॥४१९॥ इअ चिंतिऊण धवलेणुत्तं जइ कुमर! दससहस्साई । गिण्हसि ता देमि अहं, जं पुण कोडी तयं कूडं ॥४२०॥ _ यदि त्वमपि ओलग्गन्ति अवलगनं-सेवां गृह्णासि-अङ्गीकरोषि तर्हि तव जीवनं कथय-तुभ्यं कियन्मानं जीवनं दीयते ? येन कारणेन त्वं गुरुकं महत् माहात्म्यं- प्रभावो यस्य ईदृशोऽसि ॥४१६॥ एतद्धवलवचः श्रुत्वा कुमरो हसित्वा भणति,एषां सर्वेषां भटानां यावन्मानं त्वया जीवनवित्तं-जीवनद्रव्यं दत्तं तावन्मात्रं मह्यमेकस्मै देयम् ॥४१७॥ ततः - तदनन्तरं श्रेष्ठी धवलो विस्मितः-आश्चर्यं प्राप्तः सन् सहसा शीघ्रं लिक्खन्ति दीनारसङ्ख्यां गणयित्वा चिन्तयति- सर्वेषां भटानामेका दीनारकोटिर्जीवनमस्ति ॥४१८॥अयमेकः कोटिं मार्गयति, अहह इति खेदे, नूनमयुक्तं विमार्गितं अमुनाऽपि-अनेनापि एतेभ्योऽधिकं किं कार्यं सेत्स्यति ? ॥४१९॥ इति चिन्तयित्वा-विचार्य धवलेनोक्तं- हे कुमार ! यदि दशसहस्राणि दीनाराणां गृहुणासि तत्तर्हि अहं ददामि, यत्पुनस्त्वया कोटिन्तिा तत् कूट-मृषावाक्यमित्यर्थः ॥४२०॥
***********************
**
****
For Private and Personal Use Only