________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
************************
बहुचमरछत्तसिक्करिधयवडवरमउडविहिअसिंगारा । सिडदोरसारनंगरपक्खरभेरीहिं कयसोहा ॥३८७॥ जलसंबलइंधणसंगहेण ते पूरिऊण सुमुहुत्ते । धवलो य सपरिवारो, चडिओ चालावए जाव ॥३८८॥ ताव बलीसुवि दिज्जंतयासु वज्जंततारतूरेसुं । निज्जामएहिं पोआ, चालिज्जंतावि न चलंति ॥३८९॥ तत्तो सो संजाओ, धवलो चिंताइ तीइ कालमुहो । उत्तरिय गओ नयरिं, पुच्छइ सीकोत्तरं चेगं ॥३९०॥
पुनः कीदृशास्ते पोताः ? -बहूनि चामराणि च छत्राणि च श्रीकर्यश्च तदाभरणविशेषा एव ध्वजपटाश्च वरमुकुटानि चेति द्वन्द्वस्तैर्विहितः शृङ्गारो येषां ते तथोक्ताः, सढो-बृहत्पटमयोपकरणविशेषः वाउदानेति प्रसिद्धः, दवरकाणि-बृहद्रज्जवः, सारनंगरो-लोहमयः पोतस्तम्भहेतूपकरणं, पक्खरः-पोतरक्षोपकरणं, भेर्यो-दुन्दुभयस्ताभिः || कृता शोभा येषां ते तथोक्ताः॥३८७॥जलशम्बलेन्धनानां सङ्ग्रहेण तान् पोतान् पूरयित्वा सुष्टु-शोभने मुहूर्ते धवलश्च सार्थपतिः सपरिवारश्चटितः सन् यावत्तांश्चालयति ॥३८८॥ तावद् देवदेवीभ्यो बलिषु-उपहारेषु दीयमानास्वपि तारेण-उच्चैःस्वरेण तूरेषु-वादित्रेषु वाद्यमानेषु निर्यामकैः-पोतवाहकैः चाल्यमाना अपि पोता न चलन्ति ॥३८९॥ ततःतदनन्तरं स धवलस्तया चिन्तया कालं मुखं यस्य स कालमुखः सातः,तदा प्रवहणादुत्तीर्य्य नगरीगतश्च सन् एका सीकोत्तरी नारी पृच्छति ॥३९०॥
*******************************
For Private and Personal Use Only