________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धवला
यानपान दताया तो
सा कहइ देवयार्थभियाइं एयाइं जाणवत्ताइं । बत्तीससुलकखणनरबलीइ दिन्नाइ चल्लंति ॥३९१॥ तत्तो धवलो सुमहग्घवत्थु भिट्टाइ तोसिऊण निवं । विन्नवइ देव ! एगं, बलिकज्जे दिज्जउ नरं मे ॥३९२॥ रना भणियं- जो कोऽवि होइ वइदेसिओ अणाहो अ। तं गिण्ह जहिच्छाए, अन्नो पुण नो गहेयब्बो ॥३९३॥ तत्तो धवलस्स भडा, जाव गवसंति तारिसं पुरिसं । ता सिरिपालो कुमरो, विदेसिओ जाणिओ तेहिं ॥३९४॥ बत्तीसलक्खणधरो, कहिओ धवलस्स तेहिं पुरिसेहिं । धवलेण पुणो रायाएसो गहिओ य तग्गहणे ॥ ३९५॥
सा सीकोत्तरी कथयति- एतानि तव यानपात्राणि देवतया स्तम्भितानि सन्ति, द्वात्रिंशत् सुष्ठु-शोभनानि लक्षणानि यस्मिन् स द्वात्रिंशत्सुलक्षणः ईदशो यो नरस्तस्य बलौ दत्तायां चलन्ति,नान्यथा ॥३९१॥ ततः-तदनन्तरं धवलः-सार्थपतिः सुमहार्घाणां-सुतरां बहुमूल्यानां वस्तुनां 'भिट्टाई' त्ति ढौकनेन नृपं तोषयित्वा-सन्तुष्टं विधाय विज्ञपयति-विज्ञप्तिं करोति, हे देव! एकं नरं-मनुष्यं बलिकायें-देवताबलिनिमित्तं मे-मह्यं दीयताम् ॥३९२॥ राज्ञा भणितं- यः कोऽपि वैदेशिक:-परदेशवासी च-पुनः अनाथो-निःस्वामिको नरोभवति तं नरं यदृच्छया-स्वेच्छया त्वं गृहाण, अन्यः पुनर्नोग्रहीतव्यः॥३९३॥ततः-तदनन्तरं धवलस्य भटा यावत्तादृशं पुरुषं गवेषयन्ति तावत् तैर्धवलस्य भटैः श्रीपालः कुमारो वैदेशिको ज्ञातः ॥३९४॥ ततस्तैः पुरुषैभत्रिंशल्लक्षणधरः श्रीपालो धवलस्य कथितो-धवलाय निवेदितः, धवलेन च तद्ग्रहणे-तस्य श्रीपालस्य ग्रहणनिमित्तं पुनरपि राजादेशो गृहीतः ॥२९५॥
For Private and Personal Use Only