________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*************************
इओ य- कोसंबीनयरीए, धवलो नामेण वाणिओ अत्थि । सो बहुधणुत्ति लोए, कुबेरनामेण विक्खाओ ॥३७८॥ बहुकणयकोडिगाहिअ-कयाणगो गवाणिउत्तेहिं । सहिओ सो सत्थवई, भरुयच्छे आगओ अत्थि ॥३७९॥ जाओ य तत्थ लाहो, पवरो सो तहवि दवलोहेणं । परकूलगमणपउणो, पउणइ बहुजाणवत्ताई ॥३८०॥ मज्झिमजुंगो एगो, सोलसवरकूबएहिं कयसोहो । चत्तारि य लहुजुंगा, चउचउकूवेहिं परिकलिआ ॥३८१॥ वडसफरपवहणाणं, एगसयं बेडियाण अट्ठसयं । चउरासी दोणाणं, चउसट्ठी वेगडाणं च ॥३८२॥
इतश्च-कौशाम्ब्यां नगर्यां नाम्ना धवलो-धवलनामेत्यर्थः वणिक् अस्ति, स धवलो बहु धनं यस्य स बहुधन इति हेतोर्लोके कुबेरनाम्ना विख्यातः-प्रसिद्धः ॥३७८॥ बहुभिः कनककोटिभिहितानि क्रयाणकानि येन स तथोक्तः, पुनरनेकैर्वणिकपुत्रैः सहितः स सार्थपतिः-सार्थवाहो भृगुकच्छे नगरे आगतोऽस्ति ॥३७९॥ तत्र च भृगुकच्छे प्रवरः-प्रकृष्टो लाभो जातः, तथापि स सार्थपतिः द्रव्यलोभेन परकूले-समुद्रपरतटे गमनाय प्रवणः-तत्परः सन् बहूनि यानपात्राणि-प्रवहणानि प्रगुणयति-सज्जानि करोति ॥३८०॥ तेषु यानपात्रेषु मध्ये एको मध्यमजुङ्गः-पोतोऽस्ति,कीदृशः ? -षोडशभिः वरैः-प्रधानैः कूपकैः-कूपस्तम्भैः कृता शोभा यस्य सः, च - पुनश्चत्वारो लघुजुङ्गाः सन्ति, कीदृशाः ?-चतुर्भिश्चतुर्भिः कूपस्तम्भैः परिकलिता-युक्ताः ॥३८१॥ बृहत्सफरप्रवहणानामेकं शतं, बेडिकानां-नावामष्टाधिकं शतं, द्रोणानां - नौविशेषाणां चतुरशीतिः८४, वेगडानां पोतविशेषाणां चतुःषष्टिः ६४ ॥३८२॥
For Private and Personal Use Only