________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सिद्धचक्र महापजन विधि
एतदेव परं तत्त्वमेतदेव परं पदम्। एतदाराध्यमेतच्च, रहस्यं जिनशासने ।।१६।। सुगन्धैः कुसुमैः शालि-तन्दुलैर्वाऽस्य साधकाः। शुचिशीला ध्रुवं सिद्धिं, लभन्ते लक्षजापतः।।१७।। सिद्धे चास्मिन् महामन्त्रे, देवो विमलवाहनः । अधिष्ठाताऽस्य चक्रस्य, पूरयत्येव वाञ्छितम् ।।१८।। शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरुणम् । पीतं स्तम्भेऽसितं द्वेष्ये, ध्येयमेतच्च साधकैः ।।१९।। अर्हमात्मानमोअग्नि-शुद्धं मायाऽमृतप्लुतम्। सुधाकुम्भस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ।।२०।। आह्वानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्यं विसर्जनम् ।।२१।। लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आह्वानं पूरकेणैव, रेचकेन विसर्जनम् ।।२२ ।। एक-द्वि-त्रि-चतुः-पञ्च-शतैरष्टोत्तरैः क्रमात् । स्याच्छिवास्याक्षिभूसङ्ख्य-वर्णजापो महाफलः ।।२३।।। दिक्कालासनमुद्रादि-विधिपीयूषसेकतः । श्रीसिद्धचक्रकल्पद्रु-र्वाञ्छितं फलति ध्रुवम् ।।२४ ।।
।।इति श्रीसिद्धचक्रयन्त्रोद्धारे विधिचतुर्विंशतिका समाप्ता ।।
* शिवारयाक्षि-३ भू-१ १३ वर्णना मंत्रना जाप १०८ । शिव ११ वर्णना मंत्रनो जाप२०८ शिवास्य-५ वर्णना मंत्रनोजाप ३०८ । शिवास्याक्षि अथवा अक्षि-२) वर्णना मंत्रनो जाप-४०८ । भू-१ वर्णना मंत्रना जाप ५०८
For Private And Personal Use Only