________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
नवपदमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः, षोडशान्तरिते दले ।।५ ।। अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गा: सानाहता ज्ञेया, मन्त्रमूलं यतोऽक्षरम् ।। ६ ।। अष्टावनाहता स्थाप्या- स्तृतीये वलये क्रमात् । मध्येऽ नाहतमष्टाढ्या- श्चत्वारिंशच्च लब्धयः ॥ ७ ॥ ॥ ह्रींकारेण त्रिरेखेण, वेष्टयेत् परीतः समम् । क्राकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ।।८।।
श्री सिद्धचक्र महापूजन विधि
परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् । ।९ ।। स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्याः स्यु- र्देवताश्चक्ररक्षकाः ।।१०।। ततश्च वलये विद्या- देव्यः षोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विंशतियक्षपाः ।।११।। चतुर्विंशतियक्षिण्यो, वामपार्श्वे स्थिता वरम् । वीराश्च द्वारपालाश्च चतुर्दिक्षु शिवङ्कराः । । १२ ।। इन्द्राद्या दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादयो नव ग्रहाः । ।१३ ॥ नवापि निधयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः । । १४ ।। इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-र्वंशे सर्वार्थसिद्धयः ।। १५ ।।
For Private And Personal Use Only