________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ तद्धितप्रकरणम् ॥
॥६.१-१ तद्धितोऽणादिः ॥६-१-२ पौत्रादि वृद्धं ॥ ६.-१.-३ वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६-१--४ सपिण्हे वयःस्थानाधिके जीवद्वा प्रपौत्राद्यस्त्री, सपिंडताऽऽसप्तमात् , वयो यौवनादि, स्थानं पितृपुत्रादि । ६-१-५ युववृद्धं कुत्सार्च वा युवा, गर्गस्यापत्यं कुत्सितो युवा गार्यो गार्गायणो वा जाल्मः, गुर्वायत्तोऽपि स्वतंत्रः, अस्त्रीति ॥ ६--१--६ संज्ञा दुर्वा ॥६-१--७ त्यदादिः दुः॥ ६-१-८ वृद्धिर्यस्य स्वरेष्वादिः स दुः॥६-१-९ एदोदेश एषेयादी आदिः दुः॥६--१--१० प्राग्देशे एदोदादि स्वर ईयादौ दुः, शरावत्याः पूर्वोत्तरदेशविभागः, देशनियमनिवृत्तये देशे ॥ इति संज्ञा ॥
६.१-११ वाऽऽद्यात् , सर्वोऽपि तद्धितो वा, आद्यादेव च ॥ ६.१-१२ गोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्यहरितकात्यात् गोत्रमपत्यं तदन्तोत्तरपदात् तदन्तादिव ॥६-१-१३ प्राग्जितादण् पादत्रये, अधिकारपरिभाषाविधयः सर्वत्र यथार्ह स्वकार्यकृतः ॥ ६-१--१४ धनादेः पत्युःप्राग्जितीयेऽण, धन, अश्व, गज, शत, गण, कुल, गृह, पशु, धर्म, धन्वन्, सीमा, सेना,
For Private and Personal Use Only