________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२१ )
1
शक्तौ पुष्यादित्वेन व्यतिहारे व्यत्यशकतेति । तिक तिम पध हिंसायां, आद्यावः स्कन्दनेऽपि, सधपि, चषधपि, त्रयो हिंसायामपिच, विधपि । राध साध संसिद्धौ । ऋधू वृद्धौ । आप्ल व्याप्तौ । तृप प्रीणने, तृप्नुहि, अत्र क्षुनादित्वान्न णः । दम्भू दंभे । ४-१-२८ दंभः एः नलुक् न च द्विः । ४-१-२९ थे वा, देभिथ दर्दभिथ, नोपधः, मोपधो दंभेति । कुवु हिंसाकरणयोः, कृणोति । धित्रु गतौ, धिनोति, प्रीणनेऽपि । अड व्याप्तौ । दध घातने । ऋ क्षि जिरिचिरि दास न्हु हिंसायामित्यपि । ञिधृषा प्रागल्भ्ये । इति परस्मैपदं । टिषि आस्कंदने, स्तिघ्नुते । अशौङ् व्याप्तौ संघातेऽपि, आनशे । इत्यात्मनेपदं । टितः स्वादयः ।
1
तुदी व्यथने । ३-४-८१ तुदादेः शः शिति, अतुदत् । भ्रस्जी पाके । ४-१-८४ ग्रहश्चभ्रस्जप्रच्छः ङिति वृत् भृज्जति, व्यचिषशिवृश्चिभ्रस्जिप्रच्छीनां न यङ्लुपीति । ४-४-६ भृज्जो भर्ज वाऽशिति, बभर्ज बभ्रज्ज बभ्रष्ठ, स्थानिवद्भावेन वृति भृज्ज्यात् भ्रष्टा भष् । क्षिपी प्रेरणे । दिशी अतिसर्जने ( त्यागः ), देष्टा अदिक्षत् । कृषी । विलेखने, अक्षत अकृष्ट । मुच्ल मोचने । ४-४-९९ मुचादितृफदृफगुफशुभोभः शे नोऽन्तः स्वरात् मुंचति । पिची क्षरणे । विद्ल लाभे विन्दते वेत्ता, वेदितेति । लुप्लुग् छेदने । लिपी उपदेहे ( वृद्धि : ), लिंपति ॥ इत्युभयपदं ॥
"
For Private and Personal Use Only