________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्यात्तद्यथा - शिवा आपः सन्तु इति यजमानहस्ते उदकं दत्वा सौमनस्यमस्तु इति पुष्पाणि ।। अक्षतं चारिष्टं चास्तु-इति अक्षतांश्च दत्वा ततः दीर्घमायुः शातिः पुष्टिस्तुष्टिश्चास्तु - इतिपुनरुदकंदत्वा ।। आचार्यः- हस्ते साक्षतसोदकपूगीफलं गृहीत्वा भवन्नियोगेन मयाअस्मिन् ग्रहशान्दत्याख्ये कर्मणियत्कृतं आचार्यत्वं तथा च एभिर्ब्राह्मणैः सह यत्कृतं ब्रह्मत्वं गाणपत्यं सादस्यं तथा च यः कृतोहोमः आचार्यत्वात् ब्रह्मत्वात् गाणपत्यात् सादस्यात् होमात् यदुत्पन्नं श्रेयः तत्तुभ्यमहं संप्रददे तेन श्रेयसा त्वं श्रेयस्वान्भव ॥ प्रतिगृह्णामि इति यजमानो वदेत् ॥ ॥ अथ दक्षिणादानम् ॥
सपत्नीको यजमानः अग्नेः पश्चिमतः उपविष्टः उदङ्मुखानाचार्यादीन्वरण क्रमेण पूजांपूर्वि कांदक्षिणां दद्यात् ॥ हस्तेजलमादायदेशकालौस्मृत्वा मया आचरितस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गन्तासिद्धये आचार्यादिदृतेभ्यो ब्राह्मणेभ्यः पूजनपूर्वकं दक्षिणाप्रदानंकरिष्ये इति संकल्प्य आचार्यपूजनम् - आचार्य एतत्ते पार्थ शिष्टाचारात्पादौ प्रक्षाल्य इदमर्घ्य इमेतुभ्यं बार्हस्पत्ये वाससी एषते गन्ध इमानि पुष्पाणि एष ते धूपः दीपः नैवेद्यताम्बूलादीन्दत्वा एतावतीं दक्षिणांतुभ्यमहं संप्रददे ।। ततः आचार्ययगोप्रदानम् - कुशाक्षतकुसुमजलान्यादाय पूर्वोक्तवि| शेषणवतिकाले मया आचरितस्य ग्रहशान्त्याख्यस्यकर्मणः फलप्रतिष्ठासिद्धयर्थं अमुकसगोत्राय अमुकप्रवरायशुक्ल यजुर्वेदान्नायवाजिमाध्य|न्दिनीयशाखाध्यायिने अमुकशर्मणे आचार्याय गोनिष्क्रयभूतमिदं हिरण्यं अनिंदैवतं तुभ्यमहं संप्रददे ।। हिरण्यासंभवेरजतं दद्यात् । ततो ब्रह्म| नेतत्ते पाद्यमित्यादिना पूर्वोक्तप्रकारेण पूजापूर्वकं ब्रह्मणे दक्षिणां दद्यात् । एवं सदस्याय उपद्रष्ट्रे गाणपत्याय ऋत्विग्भ्यः ग्रहजापकेभ्यश्च यथोक्तदक्षिणां दत्वा आशिषोगृह्णीयात् ॥ दानानि - स्वर्णगोभूतिलान्दद्यात्सर्वदोषापनुत्तये । स्वर्णदानमन्त्रः - हिरण्यगर्भगर्भस्थं ० इदंयथा
१ ब्राह्मणानां ततः पूजा कार्या शक्तपनुसारतः । असंपूर्ण भवेत्तावद्यावद्विप्रो न पूजितः ॥ पूजिते सति विप्रेऽस्मिन् सर्वे संपूर्णता त्रजेत् ॥
For Private and Personal Use Only